पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
मेयमते

सर्वत्रैव जलाशयमिष्टं वापी च कूपं च ।
वैश्यानां दक्षिणतः परितः सदनं तु शूद्राणाम् ॥ ८८ ॥
प्राच्या वाप्युत्तरतो गेहं कुर्यात् कुलालानाम् ।
तत्रैव नापितानामन्यत्कर्मोपयुक्तानाम् ॥ ८९ ॥
मत्स्योपजीविनां स्याद् वासं वायव्यदेशे तु ।।
पश्चिमदेशे मांसैरुपवृत्तीनां निवासः स्यात् ॥ ९० ॥
तैलोपजीविनां चैवोत्तरदेशे गृहश्रेणिः ।
धनुभित्रिपञ्चसप्तभिरथे नवभिगृहावाधिः प्रोक्तः ॥ ११ ॥दण्डाभ्यामथ तस्मादायामं वर्धयेत् क्रमशः ।
व्यासहिगुणावधिकं यावद् दैर्य ग्रहीतव्यम् ॥ ९२ ॥
तत्रैव हस्तमानैर्गेहं कुर्याद् यथाविधिना ।
रुचकैः स्वस्विकमथवा नन्द्यावर्त्त चे सर्वतोभद्रम् ॥
स्याद् वर्धमानमेषामाकृत्या तचतुर्गुहं प्रोक्तम् ।
दण्डकशालालाङ्गलमथवा शूर्प यथेष्टं स्यात् ।। ९४ ॥
ग्रामात् किञ्चिद्दरे पावकदेशेऽथवा वायौ ।।
वासः स्यात् स्थपतीनां शेषाणां तत्र कर्तव्यम् ॥ ९५ ॥
तस्मात् किञ्चिद्दर रजकादीनां निवासः स्यात् ।।
चण्डालकुटीराणि पूर्वायां क्रोशमात्रे तु ॥ ९६ ॥<poem>चण्डालयोषितस्तास्ताम्रायःसीसभूषणाः सर्वाः ।
पूर्वाहे मलमोक्षक्रियोचितों ग्राममावेश्यं ॥ ९७ ॥


१. श्यादीनां', २. 'च', ३. कं', ४. ‘तैश्च स’, ५. ‘त', ६. श्याः ।।' ख. पाठः. 49