पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
मयमते

अथवा मूलतलं घनमुपरितले स्थानकं प्रोक्तम् ।
सुगतालयमथ सुगले भृङ्गनृपे चैव नृपधाम ॥ ७० ॥
मदिरालयमर्थं वायौ मुख्ये कात्यायनीवासँः।
सोमे धनगृहं वा मातृणामालये तत्र ॥ ७१ ॥
ईशे शङ्करभवनं पर्जन्यांशे जयन्ते वा ।।
सोमे धेनदगृहं वा शोषपदे वा विधातव्यम् ॥ ७२ ।।
तत्र गजाननभवनं ह्यदितौ वा मातृकाष्ठं स्यात् ।।
मध्ये विष्णोर्धिष्ण्यं तत्र सभामण्डपं प्रोक्तम् ॥७३॥
ब्रह्मस्थानैशाने वाग्नेय्यां वा सभास्थानम् ।
तदुदक्पश्चिमभागे हरिसदनं दक्षिणे परतः ॥ ७४ ॥
कुरसमेतं कर्म प्रत्ययमथ पश्च मध्ये तु ।
युग्मायुग्मपदे च ब्रह्मस्थानेऽष्टनवभागे । ७५ ॥
व्यपनीयाजं भागं प्रागादिषु दिक्षु च क्रमशः ।
नलिनकभवनं स्वस्तिकनन्द्यावर्ती बँलीनकं चैव ॥ ७६ ॥यच्छीप्रतिष्ठिताख्यं चतुर्मुखहम्य तु पद्मसमम् ।
विष्णुच्छन्दविमानं त्रितलादिद्वादशतलान्तम् ॥ ७७ ॥
बहिरप्येवं सौधं ग्रामादिषु तत्र विज्ञेयम् ।
स्थितमासीनं शयनं यत्र यदिष्टं तु तत्र तत् स्थाप्यम् ।।


 १. 'वो', २. 'जिनधा', ३. 'मे' ख. पाठः ४, “सम् ।' क. पाठः, ५. 'सामगृ’, ६. सभां द', ७. 'न', ८. ' स. पाठः, ९. “वं सर्वश्रा' क. पाठः, १०, “तत्' ख, पाठः,