पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
मयेमते

चतुरधिकषष्टिदण्डो ग्रामः स्याडीनहीनमिति कथितः ।
ग्रामस्य मध्यमस्य द्विगुणं त्रिगुण तथोत्तमं प्रोक्तम् ॥

षट्पञ्चाशद्विशतं हीनं खेटे सविंशति त्रिशतम् ।
मध्यममुत्तममेवं सचतुरशीति त्रिशतदण्डम् ॥ १२ ॥

अष्टौ चत्वारिंशचतुःशतं द्वादशं च पञ्चशतम् ।।
षट्सप्ततिपञ्चदशं हीनं मध्योत्तमं च खर्वटकम् ॥ १३ ॥

चत्वारिंशत्षट्शतमधमं दुर्ग चतुःसप्तशतदण्डम् ।।
मध्यममुत्तमदुर्ग सप्तशतं षष्टिरष्टौ हि ।। १४ ।।

द्वात्रिंशदष्टशतकं नगरं षण्णवतिअष्टशतदण्डम् ।
षष्टिर्नवशतमधर्म मध्यममुत्कृष्टामत यथासङ्ख्यम् ।।

षोडशदण्डविवृथा प्रत्येकं नवविधं भवति ।
द्विगुणं त्रिपादमधे पादं तेषां मुखयत विपुलात् ॥ १६ ॥

व्यासषडष्टांशैकं चतुरश्न वा यथेष्टं स्यात् ।।
तस्मिन् विपुलायामे दुण्डेरोजैः प्रमाणमात्तव्यम् ॥ १७ ॥

शेषं वाटधरा (ध: थे) ग्रामादिषु सर्ववस्तुपु च ।
आयादिसंपदर्थं वृद्धि हानिं च यष्टिभिः कुर्यात् ॥ १८ ॥

आयव्ययक्ष्योन्यायुभिरथ तिथिभिश्च वारैश्च ।
यजमानवस्तुनामजन्मणाविरोधिकं यत्तु ॥ १९ ॥

तन्मानेन समेतं गृह्णीयात् सर्वसम्पत्यै।
व्यासायामसमूहे वसुनिधिगुणिते दिनेशधर्मकृते ।। २० ॥


१. स्थ' क. पाठः, २. वस्तुस' ख. पाठः