पृष्ठम्:मयमतम् TG Sastri 1919.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
नवमोऽध्यायः ।।

अथ नवमोऽध्यायः ।

मादीनां माने विन्यासं चापि वक्ष्यते विधिना ।
दण्डानां पञ्चशतं क्रोशं तद्विगुणमर्धगव्यूतम् ॥ १ ॥

गव्यूतं तद्विगुणं ह्यष्टसहस्रं तु योजनं विद्यात् ।
अष्टधनुश्चतुरश्रा काकणिका तचतुर्गुण माघम् ॥ २ ॥

भाषचतुर्वर्तनकं तत्पश्चगुणं हि वाटिका कथिता।
वाटिकया युगगुणिता ग्रामकुटुम्बावानः श्रेष्ठा ॥ ३ ॥

एवं भूगतमानं दण्डैस्तेषां तु वक्ष्यते मानम् ।
ग्रामस्य शतसहस्रैर्दण्डैः पर्यन्तमानमिदमुक्तम् ॥ ४ ॥

विंशतिसहस्रदण्डात् तत्समवृया तु पञ्चमानं स्यात् ।
ग्रामे विंशतिभागे कुटुम्बभूमिस्तदेकभागेन ॥५॥

दण्डैः पञ्चशतैर्यडीने ग्रामस्य मानमिदम् ।
तस्मात् पञ्चशतद्धय यावद् विंशत्सहस्रदण्डान्तम् ॥६॥

प्रोक्तं चत्वारिंशद्धेदं ग्रामस्य मानमिदम्।
द्विसहस्रदण्डमानादिः(?) सार्धसहस्रं सहस्रदण्डं च ॥ ७ ॥

नवशतमथ सप्तशतं पञ्चशतं त्रिशतमिति च विस्तारम् ।
नगरस्य सहस्रादिडिसहस्रान्तं च दण्डमानं स्यात् ॥ ८॥

नगरस्याष्टसहस्रदण्डैः पर्यन्तमानमिदम् ।।
हिद्दिसहस्रक्षयतो हिसहस्रान्तं चतुर्विधं मानम् ॥ ९ ॥

ग्रामः खेटः खर्वटमथ दुर्ग नगरमिति च पञ्चविधम् ।
इण्डैस्तेषां मानं वक्ष्येऽहं त्रित्रिभेदभिन्नानाम् ॥ १० ॥

40