पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
भयमले

केन्यका बाथ वेश्या वा बलिधारणयोग्यकाः ।।
अङ्गन्यासकरन्यासैः पूतचेता यथाक्रमम् ।। १७ ।।

ओङ्कारादिनमोन्तेन स्वस्वनामाभिधाय च ।
दत्वा पूर्व जलं पश्चात् साधारणबलिं ददेत् ॥ १८ ॥

तत्तद्योग्यबलिं पश्चाः देयं नार्य तथा बुधैः ।
ग्रामादीनां तु मण्डूकपदे परमशायिक ।। १९ ॥

सन्तप्र्य देवता ह्येवं पूर्वोक्तविधिना क्रमात् ।।
विसर्जयेत् ततो देवान् विन्यासार्थे तु मन्त्रवेत् ॥ २० ॥

ब्रह्माणं बाह्यदेवांश्च तत्तदुक्तपदे न्यसेत् । .
देवालयविधानार्थं द्वारार्थ ते प्रकीर्तिताः ॥ २१ ॥

शेषाश्च निष्पदाः सर्वे रक्षार्थं तु निवेशिताः ।।
एवं प्रामादिषु प्रोक्तं रहस्यमिदमीरितम् ॥ २२ ॥

कृतापवासः स्थपातः भाते
विशुद्धदेहोऽविकलं गृहीत्वा ।।
विशेषसामान्यबलिं सुराणां
यथोक्तनीत्या विदधीत सम्यक् ॥ २३ ॥

इति मयमते वस्तुशास्त्र बलिकर्मविधानो नाम

अष्टमोऽध्यायः ।।


१. ३त् । हृदयाय नमस्तेऽस्तु साधारणबलिं ददेत् । त', २. ‘वि' ख, पाठः. ३. 'राजा' क. पाठः, ४ . प्रसन्नो वि’ स. पाठः, 39