पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
सप्तमोऽध्यायः ।

पदानामपि सर्वेषां मण्डूकं चापि तत्परम् ।
चण्डितं सर्ववस्तुनामाहत्यं च यतस्ततः ॥ ३१ ॥

तस्मात् सक्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तद् इयम् ।
चतुःषष्टिपदे चैकाशीतौ संकलनिकले ॥ ३२ ॥

सूत्रे च पदमध्ये च ब्रह्माद्याः स्थापिताः सुराः ।
प्रागुदग्दिक्समारभ्यैवोच्यन्ते देवताः पृथक् ॥ ३३ ॥

ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यः सत्यकश्चैव भृशश्चैवान्तरिक्षकः ॥ ३४ ।।

"अग्निः पूषा च वितथा राक्षसश्च यमस्तथा ।
गन्धर्वो भृङ्गराजश्च मृपश्च पितृदेवताः ॥ ३५ ।।

दौवारिकश्च सुग्रीवः पुष्पदन्तो जलाधिपः ।
असुरः शोषरोगौ च वायुनगस्तथैव च ।। ३६ ॥

मुख्यो भल्लाटकश्चैव सोमश्चैव मृगस्तथा ।
अदितिश्वोदितिश्चैव द्वात्रिंशद बाह्यदेवताः ॥ ३७ ।।

पश्चैवापवत्सश्चैवान्तः प्रागुत्तरे स्मृतौ ।
सविन्द्रश्चैव साविन्द्रश्चान्तः प्राग्दक्षिणे स्मृतौ ।।

इन्द्रश्चैवेन्द्रराजश्च दक्षिणापरतः स्थितौ ।।
रुद्रो रुद्रजयश्चैव पश्चिमोत्तरतो दिशि ॥ ३९ ॥

ब्रह्मा मध्ये स्थितः शम्भुस्तन्मुखस्थाश्चतुःसुराः ।
आर्यों विवस्वान् मित्रश्च भूधरश्चैव कीर्तिताः ॥ ४० ।।


१. 'थ', २. 'म' ख. पाठः, 34