पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
मयमले

चरकी च विदारी च पूतना पापराक्षसी ।।
ईशानादि बहिः स्थाप्याश्चतुष्कोणे स्त्रियः स्मृताः ॥ ४१ ।।

नपदा बलिभोक्तारैः शेषाणां पदमुच्यते ।
विंशत्सूत्रैः सन्धिभिः सप्तवेदैः।
षट्षट्सङ्ख्याभिश्चतुष्कैश्च षट्कैः ।
युक्तैः शूलैवेंदसङ्ख्याः सिराभिः
संयुक्तं स्यादृष्टकेनकमेतत् ॥ ४२३ ॥
चतुःषष्टिपदे मध्ये ब्रह्मणश्च चतुष्पदम् ॥ ४३ ॥

आर्यकादिचतुर्देवाः प्रागादित्रित्रिभागिनः ।
आपाद्यष्टामराः कणेष्वर्धाधपदभाँगिनः ।। ४४ ॥

महेन्द्रराक्षसाद्याश्च पुष्पभल्लाटकादयः ।
दिशि दिश्यथ चत्वारो देवा द्विपदागिनः ।। ४५ ॥

जयन्तश्चान्तरिक्षश्च वितथश्च मृगस्तथा ।
सुग्रीवो रोगमुख्यश्च दितिश्चैकैकभागिनः ।। ४६ ॥

ईशाद्यष्टामराः शेषाः कोणेष्वर्धपदेश्वराः ।
एवं क्रमेण भुञ्जीरन भण्डूके वास्तुदेवताः ।। ४७ ॥

स्वस्वप्रदक्षिणवशात् पदभुक्तिक्रमं विदुः ।
ब्रह्माणं च निरीक्ष्यते स्थिताः स्वस्बपदेऽमराः ॥ १८ ॥

घडूवंशमेकहृदयं चतुर्मर्म चतुःसिरम् ।
मेदिन्यां वास्तुपुरुषं निकुब्जं प्राक्शि(रोर) विदुः ॥ १९॥


१. 'च', २. अकैः शू' क. पाठः, ३, ४, “भों' ख. पाठः 35