पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
सप्तमोऽध्यायः ।

सवेदाशीतिचत्वारः शतं सुप्रतिकान्तकम् ।।
नैवविंशत्पञ्चशतं विशालं पदमीरितम् ॥ १६ ।।

षट्सप्ततिः पञ्चशतं विप्रगर्भमिति स्मृतम् ।
विश्वेशं षट्शतं पैश्चात् पञ्चविंशत्पदं स्मृतम् ॥ १७ ॥

षट्सप्ततिः षट्शतकं विपुलभोगमिति स्मृतम् ।
नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥ १८ ॥

विशालाक्षपदं वेदाशीतिः सप्तशधिकम् ।।
सैकाष्टपञ्चयुक्तं चाष्टशतं विप्रभक्तिकम् ॥ १९॥

विश्वेशसारमित्युक्तमेवं नवशतं पदम् ।
सैकषष्ट्या नवशतं पदमीश्वरकान्तकम् ॥ २० ॥

चतुर्विंशतिसंयुक्तं सहस्रपदसंकुलम् ।
इन्द्रकान्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ॥ २१ ॥

आद्यं पदं सकलमेकपदं यतीना-
मिष्टं हि विष्टरमहाशनवह्निकार्यम् ।
पित्र्यामरादियजनं गुरुपूजनं च
भान्वार्कितोयशशिनामकसूत्रयुक्ते ॥ २२ ॥


 १. 'कं चातुः श', २. 'सनन्दपवेदांशं पञ्चाशत विशालकम् ।'. ३. “पत्र पञ्चकोष्ठसमन्वितम्', ४, “तिसप्तशतं पदं वि', ५. ‘तांश- कम् ।' ख, पाठः, ६. “सएकचत्वापदं विभक्तमिति स्मृतम् ।' के. पाठः. ७. ‘तव', ८. तारकम् ।', ९. 'ध्यधिकं नन्दशतमी ख. पाठः, १०. 'शत्सहस्रं तु इन्द्रकान्तपदं स्मृतम् ।' क. पाठः. १ १. 'मि' खः पाठः, १२. 'त्रि' क. पाठः.