पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
मयमते

तथा विपुलभोगं च पदं विप्रतिकान्तकम् ।।
विशालाक्षपदं चैव विप्रभक्तिकसंज्ञकम् ॥ ६ ॥

पदं विश्वेशसारं च तथैवेश्वरकान्तकम् ।
इन्द्रकान्तपदं चैव द्वात्रिंशत् कथितानि वै ॥ ७ ॥

सकले पदमेकं स्यात् पेचकं तु चतुष्पदम् ।
पीठं नवपदं चैव महापीठं डिरष्टकम् ॥ ८ ॥

पञ्चविंशत्युपपीठं षट्षडेवोग्रपीठकम् ।
स्थण्डिलं सप्तसप्तांशं मण्डूकं चाष्टकाष्टकम् ॥ ९ ॥

परमैशायिपदं चैव नन्दनन्दपदं भवेत् ।
आसनं शतभागं स्यादेकाविंशच्छतं पदम् ॥ १० ॥

स्थानीयं स्याच्चतुश्चत्वारिंशच्छतपदाधिकम् ।
देशीयं नवषष्ट्यंशं शतं चोभयचण्डितम् ॥ ११ ॥

षण्णत्यधिकं चैव शतं भद्रं महासनम् ।
सपञ्चविंशद् डिशतं पद्मगर्भमिति स्मृतम् ॥ १२ ।।

षडाधिक्यं तु पञ्चाशद्विशतं त्रियुतं पदम् ।।
द्विशतं सनवाशीति व्रतभोगमिति स्मृतम् ॥ १३ ॥

त्रिशतं चे चतुर्विशत् कर्णाष्टकपदं तथा।
त्रिशतं चैकषष्टयंशं गणतं पादसंज्ञितम् ॥ १४ ॥

चतुःशतपदं सूर्यविशालं परिकीर्तितम् ।।
सुसंहितपदं चैकचत्वारिंशचतुःशतम् ॥ १५ ॥


१. *म शायिकं चै' रव, पाठः २. 'ॐ' क, पाठः. ३ ‘न्वितम् , ४. 'दि छ', ५. घट् चतुर्युक्तंक' स्व. पाठः. 31