पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
सप्तमोऽध्यायः ।


षट्षट्सप्ताष्टकाष्ठेमुनिरसरसकं भूतवेदाध्यजाक्ष
 नेत्रं मात्रै च मेषादिषु दशदशकेऽस्मिन् दिने त्यज्य युञ्जयात् ॥

सैमीक्ष्य भानोर्गमनं सराशिक
त्यजेत् पुरोक्ताङ्गलिमॆन्त्रयुक्ततः ।
ततस्तु काष्ठादुपगृह्य तशाद्
विसृज्य सूत्रं विदधीत स्थलम् ॥ २८३ ॥

इति मयमते वस्तुशास्त्रे दिक्परिच्छेदो नाम

षष्ठोऽध्यायः ।

अथ सप्तमोऽध्यायः

वक्ष्येऽहं पदविन्यासं सर्ववस्तुसनातनम् ।
सकले पेचकं पीठं महापीठमतः परम् ॥ १ ॥

उपपीठमुग्रपीठे (च ?) स्थण्डिलं नाम चण्डितम् ।
मण्डूकपदकं चैव पदं परमशायिकम् ॥ २ ॥

तथासनं च स्थानीयं देशीयोभयचण्डितम् ।
भद्रं महासनं पद्मगर्भ च त्रियुतं पदम् ॥ ३ ॥

व्रतभोगपदं चैव कर्णाष्टकपदं तथा।
गाणितं पादमित्युक्तं पदं सूर्यविशालकम् ।। ४ ।।

सुसंहितपदं चैव सुप्रतीकान्तमेव च ।
विशालं विप्रगर्भ च विश्वेशं च ततः परम् ॥ ५ ॥


१. ब्धि' के. पाठः, २. 'ने' ख. पाठः. ३. 'त्या' क. पाठः. ५. उदीक्ष्य', ६. मात्रयु', ६. 'वस्त्वल, ७, ‘त्येवं प’ ख. पाठः. . 30