पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते सिंहासनविधिं दृष्ट्वा विधेया तदलङ्कृतिः । बाणलिङ्गादिलिङ्गानामार्षाणां च स्वयम्भुवा(म्) ॥५६॥ पीठं प्रासादरूपं च यथेष्टं कारयेद् बुधः । पूर्वो के पौरुष लिङ्गे पीठव्यासादि पूर्ववत् ।। ५७ । तन्मानेन विमानानां विस्तारं सम्यगुच्यते।। पीठस्य द्विगुणं गेहं चतुःपञ्चगुणं तु वा ।। ५८ ।। नालीगेहं त्रिभागकभर्ध वा भित्तिविस्तरम् ।। नालीगेहस्य विस्तारं पूर्वद्वारं विधीयते ॥ ५९ ॥ सान्धारं वा निरन्धारं कूटकोठादि पूर्ववत् । लिङ्गमानवशोत्सेधं प्रोक्तं पूर्ववदुच्छ्रयम् ॥ ६० ॥ तथैव सकलस्वापि प्रासादं परिकल्पयेत् । गृहीतभवनम्तमद्वारमानवशादपि ।। ६१ ॥ यथाजातं तथा बेरवशात् सौधं प्रकल्पयेत् । बेरायामसमें गेहमध्य विगुणं मतम् ॥ ६२ ।। बेरायामे विमागे तु अंशाधिकविशालकम् ।। गोहं विस्तार भोग विभागिकम् ॥ ६३ ॥ हिभागं चन्द्रभागे तु स्थविशालार्धमानकम् । लाक्षागुलमधूच्छिष्टगुग्गुलूनां समांशकाः ॥ ६४ । एतेषां द्विगुणं भागं ग्राह्य सर्जरसं तदा । गैरिकाचूर्णकं तस्मादधं तु धनवूर्णकम् ॥ ६॥ सर्वेषामर्धतस्तैलं निक्षिपेल्लोहभाजने । लोहदा चलं कुर्यात पाचयेन्मृदुवह्निना । ६६ ॥ 309