पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९५ चतुत्रिंशोऽध्यायः । अष्टबन्धमिति प्रोक्तमश्मवद दृढबन्धनम् ।। ६६३ ॥ स्थापनीयमिह कर्तुरिच्छया लिङ्गमेकमथवाप्यनेककम्।। यत्र यत्र परितस्तु मध्यमे भित्तितस्त्वपि च येन केन वा ।। एकधामिन बहुधामिन वा ततः शूललिङ्गभवनं महन्तरम् ।। शेषमत्र विधिनोहनीयकं शिल्पविद दृढत +-+-+ -- + ॥ गर्भागारे सप्तसप्तांशकेंऽशं मध्ये प्रामं दैवि वाटभागम् । मानुष्यं तत् षोडशांशं बहिष्टात् पैशाचांश स्याञ्चतुर्विशमंशम् । शैवं ब्राह्मे वैष्णवं देविकांशे सर्व देवा मानुष स्थापनीयाः । पैशाचांशे मातरश्चासुराद्या रक्षोगन्धर्वादियक्षाश्च शेषाः ।। मध्ये सूत्रं ब्रह्मणस्तस्य वामे शम्भोर्मध्यं विष्णुसूत्रं तयोश्च । एवं नीत्वा गर्भकं तत्क्रमेण स्थाप्याः सर्वा देवता विष्णुसूत्रे ॥ सकलमकललिङ्गं मिश्रक बा विधिज्ञः स्थपतिरचलधीमान् स्थापयेत् सावधानः । सुवृतकनकयज्ञो भूषणैः संविभुष्य सकलविभवयुक्तः स्थापकेनैव सार्धम् ।। ७२ ॥ सर्वात्मीयं लिङ्गमाकाशरूपं तस्माल्लिङ्गं पौरुषे स्थापनीयम् । तज्ज्ञैर्युक्त्या सावकाशालये वा पश्चाद् बध्नीयात्तु मूर्नेष्टका वा एवं पीठं चासनं निष्कलानामर्चानां वा मण्डनं तलणालम् । लिङ्गानां वै पौरुषाणां विमानं प्रोक्तं नीत्या स्थापना च कमेण॥ इति मयमते वस्तुशास्त्रे पाठलक्षणं नाम चतुस्त्रिंशोऽध्यायः। 310