पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशोऽध्यायः । २९३ पूर्ववन्नवधाव्यासा सव्यासा?न्नता वरा। व्यासार्धार्धाधका हीना तयोर्मध्ये तु पूर्ववत् ॥ ४५ ॥ अथवा लिङ्गविष्कम्भद्विगुणा श्रेष्ठविस्तरा । अध्यर्धे कन्यसी प्रोक्ता स्वव्यासार्धत्रिपाहना ॥ ४६ ॥ व्यासोत्सेधेषु तेष्वेवं पूर्ववन्नवधा भवेत् । आकृतिब्रह्मभागस्य संस्थानं तु यथा तथा ॥ १७ ॥ लिङ्गव्याससमं व्यासं मध्ये खातं प्रकल्पयेत् । स्वव्यासार्ध तु वाष्टांशं गम्भीरं लिङ्गमूलवत् ॥ ४८ ॥ न्यस्तरत्नयुतं सम्यक् शिष्टं तल्लिङ्गमूलतः । नपुंसकाश्मना तत्र कर्तव्या ब्रह्मणः शिला ॥ १९ ॥ पीठब्रह्माश्मनोनन्द्यावर्ताभा मध्यमे शिलाः। चतस्रस्ताः प्रयोक्तव्याः प्रादक्षिण्यक्रमेण तु ।। ५० ॥ स्थानकासनयुक्तानां प्रतिमानां पुरे पुरे । एकद्वित्रिचतुःपञ्चषण्मात्रं वाधिकं ततः ॥ ५१ ॥ आसनानां स्वविस्तारादष्टभागाधिदैर्ध्यकम् । द्वेगुणं तन्निजायाम भण्डनं पैण्डिके यथा ॥ ५२ ॥ चितुःपञ्चभागोच्चे बेरायामे यथाक्रमम् । शम्ने चासने भागं स्थानके विष्टरोदयम् ॥ ५३ ॥ यथोचतं तथा दैर्घ्यव्यासं स्याच्छयनेऽपि च । ब्रह्माीनां तु देवानां देवीनामासने मतम् ॥ ५४ ।। सोपपं गृहाजिरतु सिंहं सिंहासने मतम् । त्रिपक्षे चिसंयुक्ते नानामण्डनमण्डितम् ॥ ५५ ॥ 308