पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ मयमते शररसमुनिवसुभागेष्वलम्बपक्षयोः सूत्रे । पृष्ठे तयोर्युतिः स्याद् भागं त्यक्त्वा पुरोक्तवच्छेषम् ॥ ३३४३ ॥ सूत्रेण भस्मनैव प्रथमं सूत्रं प्रवर्त्य सूत्राग्रम् । घटिकाग्रेण विलिख्य तु पार्थे सूत्रेण लक्षणं कुर्यात् ॥ १३५३ ॥ सूत्राणां सर्वेषां कर्तव्या वर्तना तदने तु। लिङ्गानां शिरांस यथा सामान्योऽयं तथा समुद्दिष्टम् ॥ १३६३ ॥ अश्वत्थपत्रसदृशं लिङ्गं मुकुलोपमं यवाभं च । अम्बुजकुड्मलसदृशं सामान्यं सर्वलिङ्गेषु ॥ १३७३ ॥ सूत्राग्रमात्तभागैकांशं व्यासोन्नतं हि मतम् । लिङ्गानामाहत्यं सूत्राग्रयं वक्ष्यते विधिना ॥ १३८३ ॥ छत्राभाये लिङ्गे कुञ्जरनयनोपमं तु सूत्रं स्यात् । खण्डेन्दुनिभे लिङ्गे शूलाग्रं बुहृदाभे च ॥ १३९३ ॥ त्रपुषाभे लिङ्गाग्रे सूत्राग्रं कुक्कुटाण्डनिभम् । छत्राभं सूत्राग्रं लिङ्गे स्यात् कुकुटाण्डनिभे ॥ १४०३ ।। नाहे सप्तदशांशेष्वेकं गृह्य त्रिधा यंशम् । मध्यमसूत्रव्यासं तस्यार्धे पक्षयोः सूत्रे ॥ १४११ ॥ लिङ्गायामे योज्यं सामान्यं सर्वमेतत् स्यात् ॥ १४२ ॥ लिङ्गायामं विस्तृतं स्वस्वभेदे- नम्नैवैषां सम्यगुष्णीषमानम् । छत्राभा .... .... शुष्णीषसूत्रं प्रोक्तं युक्त्या नागरादिक्रमेण ॥ १४३ ॥ 301