पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयस्त्रिंशोऽध्यायः । वक्ष्येऽहं स्फाटिक लिङ्गं नीचमध्योत्तमक्रमात् । एकाङ्गुलं समारभ्यैवाङ्गल्याङ्गलवर्धनात् ॥ १४४॥ षडङ्गलान्तमुत्सेधं पूजांशं कन्यसं मतम् । सप्ताङ्गलं समारभ्य यावद् द्वादशमात्रकम् ॥ १४५ ॥ पूजाभागोदयं लिङ्गे मध्यमे तु प्रकीर्तितम्। सैकैकाङ्गलमारभ्य चाङ्गलाङ्गुलवर्धनात् ॥ १४६ ॥ अष्टादशाङ्गलं यावत् पूजांशोचं षडुत्तमे । तद्धीनादर्धमात्रेण वृद्धयैकांशं सुसंख्यया ॥ १४७ ॥ श्रेष्ठमध्यपरे लिङ्गे त्रयस्त्रिंशत् समुन्नतम् । पूजांशार्धत्रिभागैकं गाढं वा स्फाटिकं मतम् ॥ १४८ ॥ समं त्रिपादमध वा पूजांशोच्चस्य विस्तृतम् । साधारं वाथ वृत्तं वा स्फाटिकानामथाकृतिः ॥ १४९॥ वर्तना शिरसस्तस्य नागरादिषु वै यथा । मध्ये वरे तु लिङ्गे तु ब्रह्मसूत्रं तु पूर्ववत् ॥ १५० ॥ ब्रह्मसूत्रं विना ह्येतत् तेजोद्रव्यं वरप्रदम् । स्वव्यासद्विगुणं सार्ध द्विगुणं त्रिगुणं तु वा ॥ १५१ ॥ पीठस्य मण्डनं नालं युक्त्या तत्र प्रयोजयेत् । पूजांशोञ्चसमं वाथ त्रिभागं पिण्डिकोदयम् ॥ १५२ ॥ मृदृक्षरत्नलोहैश्च कुर्यात् स्फाटिकवद् दृढम् । मृन्मयं युक्तितः पक्कमपकं वा यथेष्टतः ॥ १५३ ॥ वृक्षजं दोषनिर्मुक्तं लोहज घनमिष्यते । घनं वाङ्गमनाङ्गं वा लोहेन सकलं मतम् ॥ १५४ ॥ 302