पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयस्त्रिंशोऽध्यायः । रेखा व्यकर्कशोक्ता (2) सर्वेषामेव लिङ्गानाम् । अष्टौ यवान् गृहीत्वा नवधा विभजेत् समं दृढतरधीः॥ एकांशेनैककरोत्तुङ्गे लिङ्गे विधातव्या । एकैकभागवृद्धया नवहस्ताङ्के तु लिङ्गे तु ॥ १२४३ ॥ अष्टयवान्तरगाढा सा रेखा सम्यगुद्दिष्टा । अर्धयवेनाप्युदिता रेखार्धयवेन पूर्ववद् वृद्धिः॥ १२५३॥ सार्धचतुर्यवतारं नवति(?) श्रेष्ठे तु लिङ्गे तु । मध्यमसूत्रव्यासादर्धततिः पक्षयोस्तु पृथक् ॥ १२६३ ॥ सर्वेषां रेखाणां व्यासावनतिः समा एव । अथ नागरादिकानां वक्ष्ये सामान्यलक्षणोद्धरणम् ।। षोडशभागे पूजाभागोच्चेऽधो विहाय नयनांशम् । उपरिष्टाच्चतुरंशं दशभागं साभ्रकं सूत्रम् ॥ १२८३ ॥ मणिरेखा भ्रमणीयाधस्ताद् यंशं विहाय के मुकुलात् । पृष्ठे तयोर्युतिः स्यान्मुकुलव्यासं तु भागेन । १२९३ ॥ अथवा षोडशभागेऽधोंशं त्यक्त्वा दशांशके नालम् । शेषं पूर्ववदुक्तं सामान्यं सर्वलिङ्गानाम् ॥ १३० ॥ द्वादशभागे रौद्रे त्यक्त्वोर्थेऽधो द्विभागमेकांशम् । नवभागे साग्रं तच्छेषं पूर्वोक्तवत् कार्यम् ॥ १३१३॥ द्विनवभागे शैवेऽधोर्चे यंशं शरांशं च । रुद्रांशैरजसूत्रं मुकुलं भागेन पूर्ववच्छेषम् ।। १३२३ ॥ शैवे हिरष्टभागे चोर्वे यंशं युगांशकं नीत्वा । दशभागं सूत्रोच्चं तदंशकस्त्वष्टांशकात् समारभ्य (?) ॥ 300