पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ मयमते तेषु गृहीत्वैकांशं त्रियंशं सूत्रविष्कम्भम् । यावदधःकृष्णांशं हुक्तोत्सेधे नयेत् तु समम् ॥ ११३३ ॥ एवं नागरलिङ्गे सूत्रं सम्यङ् मयेनोक्तम् । त्रिःपञ्चभागिकेऽस्मिन् द्राविडलिङ्गे शिवायामे ॥ ११४३॥ नन्ददशरुद्रांशा हीनाद्युदयाः समुद्दिष्टाः । मुनिवसुभागे ह्यशैः क्रमशः संलम्बयेत् सूत्रे ॥ ११५५ ।। युगगुणनयनेष्वत मध्ये शरवेदवलियुगलेषु । रसशरयुगबन्धेपु प्रोक्ता श्रेष्ठे तयोस्तु युतिः ॥ ११६ ॥ द्राविडलिङ्गे सूत्रव्यासं स्वांशार्धतः प्रोक्तम् । वेसरलिङ्गे पूजाभागे त्रिःपञ्चभागे तु ॥ ११७ ॥ दशभागं सूत्रोच्चं वस्वंशात् सम्यगारभ्य। लम्बनमथ भूतवनानलपाशांशेषु सूत्रयुतिः ॥ ११८ ॥ व्यासे द्विरष्टभागे विष्कम्भांशो बरः प्रोक्तः । आयामे वसुभागे वेदशिरुच्छ्रितस्तु ततः ॥ ११९३ ॥ गुणभागादारभ्य यंशे चैकांशकेऽनयोस्तु युतिः । व्यासो गृहीतभागैकैकं विभजेत् त्रिधा यंशम् ॥१२०३ ॥ एवं मध्यममिष्टं द्वादशभागीकृते तुङ्गे । पूर्ववदुद्दिष्टं (तद्) विष्कम्भं भोगभागयोः प्रोक्तम्॥ गदितं कन्यसमेवं वेसरलिङ्गे तु सूत्रं तत् । बेसरलिडोद्धरणलक्षणं समाप्तम् । भात्तांशे नवभागे भागेन व्यासगम्भीराः ॥ १२२३ ॥ 299