पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमत स्थूलमूला कृशाग्रा या कंसतालसमध्वनिः। स्त्रीशिला कृशमूलाग्रा स्थूला षण्डेति निःस्वना ॥९॥ सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः। युञ्जीयात् स्त्रीशिलाः सम्यङ् नारीबेरं च पिण्डिका ॥ १०॥ षण्डोपलेन कर्तव्यं ब्रह्मकर्मशिले तथा । नन्द्यावर्तशिले वापि कर्तव्या तेन चात्मना ॥ ११ ॥ प्रासादतलकुड्यादि कर्म कुर्याद् विचक्षणः । सा शिला त्रिविधा बाला मध्यमा स्थविरेत्यपि ॥१२॥ टङ्कघातादिमृद्धी या मन्दपक्केष्टकोपमा । शिला बाला मता तज्ज्ञैः सर्वकर्मसु निन्दिता ॥१३॥ स्निग्धागम्भीरनि?षा सुगन्धा शीतला मृदुः। नबिलावयवा तेजःसाहिता यौवना शिला ॥ १४ ॥ मध्यमा सर्वयोग्या स्यात सर्वकर्मार्थसिद्धिदा । मत्स्यमण्डूकशकला रूक्षा वृद्धा शिलाशिवा ॥ १५ ॥ रेखाबिन्दुकलङ्काढ्या सा त्याज्या सर्वयत्नतः । छेदने तक्षणे यत्र मण्डलं दृश्यते यदि ॥ १६ ॥ सा शिला गर्भिणी विद्वांस्तां प्रयत्नेन वर्जयेत् । मुखमुद्धरणेऽधोंऽशमूर्वभागं शिरो विदुः ॥१७॥ शिलामूलमवाक्प्रत्यगुदगं प्रागुदग्दिशि। अग्रमूर्ध्वमधोमूलं पाषाणस्य स्थितस्य तु ॥ १८ ॥ नैऋत्यैशानदेशाग्रा वह्नयना वहिवायुगा। उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥ १९ ॥ 289