पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकत्रिंशोऽध्यायः व्यासं त्रिवितस्ति स्यादायाम पञ्चकैर्वितस्तिः स्यात् । अधमं त्रिवितस्ति स्यान्मध्यं तस्मादङ्गुलाधिक्यम् ॥४॥ तस्मात् व्यङ्गलमधिकमुत्तममेतत्तु कथ्यते मुनिभिः । विपुलाध्यर्धायामं स्वस्वव्यासं च कर्णमात्रं वा ॥५॥ व्यासार्ध भित्त्युचं शेषं तस्मात् व्यङ्गुललक्षणम् (?) । मध्यममधमं तस्मात् व्यङ्गलहीनं त्रिधोत्तुङ्गम् ॥ ६ ॥ व्यासायामोच्चवशात् त्रिविधोक्ता पैण्डिका शिबिका । सैकत्रिंशतिमात्रैः सप्तत्रिंशत् सपश्चकं त्रिंशत् ॥ ७॥ मात्रैरथवा विपुलं दैोच्चं पूर्वमेव तत् कार्यम् । उत्कृष्टमध्यमाधमविपुलं पश्चार्धयुगलमिति मात्रैः ॥ ८॥ निजविपुला?त्सेधात् कर्तव्यं सम्यगीष्कायामा (?) । पञ्चचतुरच्यङ्गलिभिर्विपुलं सार्ध तु तत्तीव्रम् ॥ ९ ॥ सक्षुद्रपट्टिका(थ ?) वा यानावनिमाब्जकं प्रयुतम्। वर्ध द्विमात्रसाधैंकाङ्गलयुक्तत्रिहस्तं स्यात् ॥ १०॥ व्यासं त्रिपादमध तयोस्तु मध्यं च तत्तुङ्गम् । गोलार्धाकृतिकं वा छत्राभं वाथ वेत्रभेदनिभम् ।।११।। हस्तेषिकयोर्मध्ये पड्भागैः कम्पकानि चत्वारि । सार्धयङ्गुलविपुलं व्यङ्गुलमर्धार्धमात्रविस्तारम् ॥१२॥ अर्ध त्रिपादाङ्गुलकमुत्सेधं ह्येव कम्पकानां तु। भघरोघे चैकांशाङ्गुलिकं फलकादिरपि युक्तम् ।। मध्यमकम्पं त्यक्त्वा युक्तिवशान्मध्यभित्तिमाने तु । मध्ये यंशे फलका नरनारीचकवाकशोभयुतम् ॥ १४ ॥ KK 280