पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ मयमते शेषं कुड्ये प्रयोक्तव्यं त्रित्रिकैरपि कारयेत् । यथावलं यथाशोभं तथा मण्डनमण्डितम् ॥ ११७॥ स्तम्भायामं विशालं च प्रस्तरं पूर्ववद् भवेत् । ऊर्ध्व भूमेरधो भूमेरवधिः प्रथयिष्यते ॥ ११८ ॥ प्रवेशदक्षिणे गर्भमारूढे भित्तिके भवेत् ॥ ११८३ ॥ एकादिसप्तान्ततलानि युच्या त्रिसप्तभेदानि हितानि नाम्ना । प्रोक्तानि विप्रादिचतुष्टयानां मयेन वेशायतनानि वासे ॥ ११९३ ॥ आद्यत्रयं सकलवर्णहितं तदेवै- __ श्वर्योपयुक्तमनुजेषु विधीयते हि । ग्रामाग्रहारपुरपत्तनके द्वितीयं सर्व नृपेशभवनाविहितं सुराणाम् ॥ १२०४॥ इति मयमते वस्तुशास्त्रे द्वारविधानो नाम त्रिंशोऽध्यायः । अथैकत्रिंशोऽध्यायः । अथ वक्ष्ये यानानां शयनानां लक्षणं क्रमशः। शिबिका च रथं यानं पर्यादीनि शयनानि ॥ १ ॥ मथ शयने तज्जातान्यपि पीठाद्यासनानि ततः। पीठेति(च) शिखरेति मौण्डीति मया त्रिधा मता शिबिका ॥ व्यासायामसमस्ता भेदाः सव्यंशशिखरिभित्तिवशात् । व्यासायामोत्सेधान्यधुना वक्ष्ये पृथक् पृथक् तासाम् ॥ ३ ॥ 279