पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशोऽध्यायः । भद्रसुन्दरमित्युक्तं नाम्ना तत्तंतमेव हि (?) । द्विरष्टद्विनवांशेन व्यासे पार्श्वन योजयेत् ॥ १०६ ॥ स्वव्यासांशं चतुर्भागेऽप्यधिकं स्यात् तदायतम् । शेष युक्त्या प्रकर्तव्यं शुद्धमिश्रतयान्वितम् ॥ एवं सप्ततलं ज्ञात्वा नाम्ना तत् त्रिविधं भवेत् । तदेवाधःस्थलं त्यक्त्वा षट्तलं यत्क्रमेण तु ॥ १०८ ॥ सुबलं सुकुमारं च सुन्दरं चेतिकीर्तितम् । द्विसप्तविस्तारायामे द्वारतारं विशिष्यताम् ॥ १.९॥ गृहपिण्डि च गेहं च पूर्ववत् परिकल्पयेत् । हारालीन्द्रं तु पश्चार्धा(शेन परितः कमात् ॥ ११ ॥ अलीन्द्रं बाह्यभित्तिं च भागेनांशेन योजयेत् । अङ्गणे साष्टिकड्यंशं शालायामं षडंशकम् ॥ १११ ॥ जलस्थलं त्रिभागेन कूटशालान्तरे विदुः । विस्तारे वा स्थलढ्यंशं महावारत्रयान्वितम् ॥ ११२ ॥ शेषं पूर्ववदुद्दिष्टं पञ्चभूमं यथाक्रमम् । श्रीच्छन्दं श्रीविशालं च विजयं चेति कीर्तितम् ॥११३॥ नाम्नेदं त्रिविधं प्रोक्तं नानावयवशोभितम् । तदेव व्यासं व्यायाम ड्यंशेन परिवर्जितम् ॥ ११४ ॥ महावारद्वयोपेतं कूटकोष्ठं च पूर्ववत् । ललितं चैव कल्याणं कोमलं च त्रिधा मतम् ॥ ११५॥ नाम्ना चतुस्तलं चैव ग्रामादीनां च वेश्मनाम् । त्रियेकालीन्द्रयुक्तं वा सप्तभौमादिषु त्रिषु ॥ ११ ॥ 278