पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते २६२ नालिगहं द्विषड्भागं व्यासायामसभित्तिकम् । परितो यशमानेनालीन्द्रं कुर्याच्चतुष्टयम् ॥ १५ ॥ हाराचतुष्टयं कुर्यादर्धाशेन समन्ततः । तहहिस्त्वेकभागेन परितोऽलीन्द्रमिष्यते ॥ ९६ ॥ हाराभागं तु भागेन गृहपिण्डिस्तदर्धता । हाराभागेन कर्तव्यं पार्श्वयोः पञ्जरस्य तु ॥ ९७ ॥ सप्रत्यङ्गसहामूलं भूमाभूममुपर्यपि । त्रितले खण्डहादिमण्डितं वा स्थलान्वितम् ॥ ९८ ॥ उपर्युपरि च ग्रीवा महावारचतुष्टयम् । उपर्युपरि युक्त्याङ्घि योजयेद् द्वारमप्युभे ॥ ९९ ॥ अयुग्मस्तूपिकोपेतं शिरसाम्याङ्गपट्टिका । तोरणे जालकं क्षुद्रनीडैः सम्यग्विचित्रितम् ॥ १० ॥ तले तले महावारे युक्त्या नास्यङ्गसंयुतम् । द्वारस्योभयपाधैं तु कुटशालान्तरे ततः ॥ १.१ ॥ उपपीठादिरोहाथै सोपानं चारमिष्यते । सोपानाङ्गणकूटस्य त्रिखण्डं शृङ्गमण्डलम् ॥ १.२ ॥ उपर्युपरिसोपानं युक्त्या तत्र प्रयोजयेत् । भद्रकल्याणमित्युक्तं नाम्नेदं द्वारगोपुरम् ॥ १.३ ।। तदेव शिखरे मध्ये नासिका पार्श्वयोईयोः । मुखेऽमुखे तु नास्यङ्गयुक्तं तस्य सुभद्रकम् ॥ १०४॥ द्यशं वारितलं गर्भ गेहं तत्पार्श्वयोईयोः । द्विभागं चतुरश्राभं चतुर्मास्यङ्गसौष्टिकम् (१) ॥ १.५ ॥ 277