पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशोऽध्यायः । २५९ . द्विचतुष्कषडायामं नालीगेहं तदर्धतः । शेषं तु भित्तिविष्कम्भं मध्ये द्वारं प्रयोजयेत् ॥ ६२॥ त्रिवर्गमण्डपाकारं नाम्ना (भा ? तत्) श्रीकरं भवेत् । तदेव परितो भक्त्या महाद्वारसमन्वितम् ॥ ६३ ॥ संवृतं विवृतं वापि लाङ्गलाकारभित्तिकम् । द्वारोपरिष्टात् सोपानं परतलस्तुलसंवृतम् ॥ ६४ ॥ सकलं दुस्तकं कोष्ठं काननं मुखपट्टिका । मध्यपादसमायुक्तं नासिका मध्यमे भवेत् ॥ ६५ ॥ महाद्वारेऽष्टनासं स्या(द्ग ? द्रा)मे तच्छीतमिष्यते । तदैकककरं कोटं काननं मुखपट्टिका ॥ ६६ ॥ श्रीभद्रमेतदुद्दिष्टं नाम्ना सर्वेषु पूजितम् । एकभूमि त्रिधा प्रोक्तं द्वितलं वक्ष्यतेऽधुना ॥ ६७ ॥ चतुष्पशिस्तृतायामद्वारतारं विशिष्यते । एकत्रिभागिकैवासायामं तालीगृहं तथा ॥ ६८ ॥ अर्धाशं परितः कुड्यं बहिर्वारमथांशकम् । तदर्ध तहहिः कुर्यात व्यंशगोपानमञ्चकम् ॥ ६९ ॥ सोपानपीठमधिष्ठानं स्तम्भादिपरिमण्डितम् । महावानेऽष्टनास्यङ्गं श्रीकर कोष्कृताकृति ॥ ७० ॥ मुखेऽमुखे महानासद्विभागविसृतान्विता । सभद्रं वा विभद्रं वा भद्रं पादसमन्वितम् ॥ ७१ ॥ प्रादक्षिण्येन सोपानं महावाराधिरोहणम् । नाम्नेदं रतिकान्तं स्यात् सर्वेषां रतिवर्धनम् ॥७२॥ 274