पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ मयमते पर्जन्ये भृशमार्गे तु पूष्णि भागे नृपे तथा । दौवारिके तु रोगांशे नागेऽदितिपदे कमात् ॥ ५१ ॥ उपहारं प्रयोक्तव्यं तत्सुरुङ्गमिति स्मृतम् । एकहितलसंयुक्तं बहुरक्षासमन्वितम् ॥ ५२ ॥ पादाधिष्ठानयोर्मानं नीत्वा शेष यदुन्नतम् । तत्तु तन्त्रोपपीठोच्चे पूर्वोक्तद्वारतुङ्गकम् ॥ ५३ ॥ पुरतो वर्णकं गुह्यं सोपानं तल्पसंयुतम् । द्वारगोपुरगम्भीरं गृही योगं निधापयेत् ।। ५४ ॥ सीमां सालं च सीमान्तं वेश्मादीनामुदीरितम् । इदानी द्वारशोभादिगोपुरान्तं तु विस्तृतम् ।। ५५॥ दैर्घ्यमुत्तुङ्गमानं तु संक्षेपाद वक्ष्यते क्रमात् । पञ्चसप्तत्रिविधैकादशत्रयादशमानतः ॥५६॥ प्रथमावरणे द्वारशोभाव्यासास्तु पञ्चधा । त्रिपञ्चायात्रयोविंशद्वारशाला करान्तकम् ॥ ५७ ॥ पञ्चविंशत्कराद् यावत् त्रयस्त्रिंशत्करान्तकम् । द्वारगोपुरविस्तारं पञ्चैव परिगीयते ॥ ५८ ॥ विस्तारत्रितयो यश पादमध द्विपादकम् । तत्सम वाधिकं तेषामायामाः स्युः पृथक् पृथक् ॥५९॥ उत्तुङ्गं तु तथैवेष्टमथवोन्नतमिप्यते । पश्चांशेभ्यश्च सप्तांशे सप्तांशेभ्यो दशांशके ॥ ६० ॥ स्वव्यासादधिकोत्सेधान् पूर्वोक्तानामुदीरितम् । वक्ष्यते द्वारशोभादिपञ्चाख्यालङ्कतिकिया ॥६१ ॥ 273