पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५७ त्रिंशोऽध्यायः । विषणाडीसमानं च फणयोः पद्ममेव च । स्थूलभावावनं रक्षाद्वारं तद्(तु ?)लसितं वरैः॥४०॥ गमनागमने गजोपरिष्टाद् द्विजधातावरणास्पृशाचा(?) । क्षयदं नृपतेर्हितं तु यत्सिपदेऽवनतं विवेशतः (?)॥ फुल्लप्रवेशने भूपः सुचिरं जीवितं ध्रुवम् । परराज्याधिपत्यं च क्षीणत्वं चैव याति सः॥४२॥ मध्यद्वारं तु देवानां द्विजानामवनीभृताम् । शेषाणामपि सर्वेषामुपमध्यं विधीयते ॥ ४३ ॥ द्वात्रिंशदेवतांशेषु तेषु माहेन्द्र के पदे । राक्षसे पुष्पदन्ते च भल्लाटे च चतुर्वपि ॥ ४ ॥ तदिगीशानमाश्रित्य द्वारं कुर्यात् सुशोभनम् । अन्तारबहिरिमेवं युञ्जीत बुद्धिमान् ॥ ४५ ॥ शेषद्वाराणि सर्वाणि सर्वदोषप्रदानि हि । ब्राह्मणोऽभिमुखं ब्रह्मापरावृत्तिर्निषिध्यते ॥ ४६॥ किमनेन प्रलापेन द्वारमन्यद् विगर्हितम् । विशालं व्यक्ततारं स्याद् व्यत्यस्तं रोगदायि तत् (?) ॥ विवृते संवृते कार्य स्थापिते स्थितिमद् भवेत्। उपरिष्टादधस्ताच्च व्यासायामं समं शुभम् ॥ ४८ ॥ अतिदूरे सशब्दत्वमथ धावकधावनम् । दोषदं सततं पत्युर्विपदामास्पदं भवेत् ॥ ४९ ॥ . जयन्ते वितथे चैव सुग्रीवे मुख्यके पदे।। जलद्वारं प्रयोक्तव्यं क्रमादन्यद् विवर्जितम् ॥ ५० ॥ 272