पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० मगमते तदेव शिखरं दभ्रचतुर्णासिसमन्वितम् । यत् कान्तविजयं नाम्ना सर्वेषां कान्तिवर्धनम् ॥ ७३ ॥ प्रहीणशिखराकारं हारोपेतं तदेव हि। द्वारे परीतनास्यङ्गमेतन्नाम्ना सुमङ्गलम् ॥ ७४॥ एतद् द्वितलकं प्रोक्तं त्रितलं वक्ष्यतऽधुना । चतुप्षड्डिस्तृतायामं हारतारं विशिप्यताम् ॥ ७५ ॥ द्वारस्य पार्श्वयोासावंशेनांशेन योजितौ । तत्तत्परिवृतं कुड्यम(शेन विधीयते ॥ ७६॥ द्वारे न परितो वारं द्विकं चैवात्र नासिकम् । गेहद्वयं सगोपानं हारोपेतमुपर्यपि ॥ ७७ ॥ वास्तलं च तयोर्मध्ये हारतारं विधीयते। द्वारहर्म्यमिदं नाम्ना मर्दलं राजमन्दिरम् ॥ ७८ ॥ षट्पतिविस्तृतायामं द्वारतारं विधीयते । द्वारस्य पार्श्वयोासमेकैकांशेन योजितम् ॥ ७९ ॥ तत्तत्परिवृतं कुड्यमर्धभागेन सम्मतम् । बहिः परिवृतं वारमेकैकांशेन योजयेत् ।। ८० ॥ जलस्थलितयोर्मध्ये द्वारतारं विधीयते । बहिष्टात् परितो वारं भागेनैव समन्वितम् ॥ ८१ ॥ व्यासावृतं महांशारं प्रत्येक चेष्टनासिकम् । , प्रहीणशिखराकारं हारोपेतमुपर्यपि ॥ ८२ ।। नासिका बाह्यपादे तु द्विसप्त परिकीर्तितम् । हारसोपानमार्ग च युक्त्या तत्र प्रयोजयेत् ॥ ८३ ।। 275