पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
मयमते

अथ षष्ठोऽध्यायः ।।

वक्ष्येऽहं दिक्परिच्छेदं शङ्कनार्कोदये सति ।
उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥ १ ॥

प्रशस्तपक्षनक्षत्रे विमले सूर्यमण्डले ।
गृहीतवास्तुमध्ये तु समं कृत्वा भुवः स्थलम् ॥ २ ॥

जलेन दण्डमात्रेण समं तु चतुरश्रकम् ।
तन्मध्ये स्थापयेच्छङ्क तन्मानमधुनोच्यते ॥ ३ ॥

अरत्निमात्रमायाममग्रमेकाङ्गुलं भवेत् ।
मूलं पञ्चाङ्गुलं व्यासं सुवृत्तं नित्रेणं वरम् ॥ ४ ॥

अष्टादशाङ्गुलं मध्यं कन्यसं द्वादशाङ्गुलम् ।
आयामसदृशं नाहं मूलेऽग्रे तु नवाङ्गुलम् ॥ ५ ॥

दन्तं वै चन्दनं चैव खदिरः कदरः शमी ।
शाकश्च तिन्दुकश्चैव शकुवृक्षा उदीरिताः ॥ ६ ॥

अन्यैः सारद्रुमैः प्रोक्तं तस्याग्रं चित्रवृत्तकम् ।।
शकुं कृत्वा दिनादौ तु स्थापयेदात्तभूतले ॥ ७ ॥

शङ्कडिगुणमानेन तन्मध्ये मण्डलं लिखेत् ।
पूर्वापराह्नयोश्छाया यदि तन्मण्डलान्तगा ॥८॥

तद्विन्दुहयगं सूत्रं पूर्वापरदिशैशीष्यते ।
बिन्दुइयान्तरभ्रान्तशफराननपुच्छगम् ।। ९ ।।


“इसीरि' ख. पाठः. २. “हीज' क, पाठः. ३. गि १. ३. पाठः, 27