पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
पञ्चमोऽध्यायः ।

चित्रज्ञः सर्वदेशज्ञश्चान्नदश्चाप्यलुब्धकः ।।
अरोगी चाप्रमादी च सप्तव्यसनवर्जितः ॥ १७ ॥

सुनामा दृढबुद्धिश्च वास्तुविद्याब्धिपारगः।
स्थपतेस्तस्य शिष्यो वा सूत्रग्राही सुतोऽथवा ॥ १८ ॥

स्थपत्याज्ञानुसारी च सर्वकर्मविशारदः ।
सूत्रदण्डप्रपातज्ञो मानोन्मानप्रमाणवित् ।। १९॥

शैलदार्विष्टकादीनां सूत्रग्राहिवशात् तु (यत् ? यः) ।
तक्षणात् स्थूलसूक्ष्माणां तक्षकैः स तु कीर्तितः॥२०॥

मृत्कर्मज्ञो गुणी शक्तः सर्वकर्मस्वतन्त्रकः ।
तक्षकस्तक्षणेनारिमन्नुपर्युपरि युक्ततः ॥ २१ ॥

वृद्धिकृद् वर्धकिः प्रोक्तः सूत्रग्राह्यनुगः सदा ।
कर्मिणो निपुणाः शुद्धा बलवन्तो दयापराः ।। २२ ।।

गुरुभक्ताः सदा हृष्टाः स्थपत्याज्ञानुगः सदा ।
तेषामेव स्थपत्याख्यो विश्वकर्मेति संस्मृतः ॥ २३ ॥

एभिर्विना हि सर्वेषां कर्म कर्तुं न शक्यते ।
तस्मादेतत् सदा पूज्यं स्थपत्यादिचतुष्टयम् ॥ २४ ॥

एभिः स्थपत्यादिभिरत्र लोके
विना ग्रहीतुं सुकृतं न शक्यम् ।
तैरेव सार्धं गुरुणाथ तस्माद्
भजन्ति मोक्षं भवतस्तु मयः॥ २५ ॥

इति मयमते मानोपकरणं नाम

पञ्चमोऽध्यायः ।।


१. ' सर्वज्ञः', ३. बन्धुश्च', ३. कस्विति की' ख, पाठः, 26