पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
मममते

वास्तूनां तु धनुर्मुष्टिय़मादीनां धनुग्रहः।
सर्वेषामपि वास्तूनां किष्कुरेवाथवा मतः ॥ ७॥

रत्नश्चैवमरनिश्च भुजो बाहुः करः स्मृतः ।।
हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तितः ॥ ८ ॥

दण्डेनाष्टगुणा रज्जुर्दण्डैश्रमं च पत्तनम् ।
नगर निगमं खटं वेश्मादीन्यपि मानयेत् ॥ ९॥

गृहादीनां तु हस्तेन याने च शयने बुधैः ।
वितस्तिना विधातव्यं क्षुद्राणामङ्गुलेन तु ॥ १० ॥

घवेनाल्पीयसां मानमेवं मानक्रम विदुः।
मध्यमाङ्गुलिमध्यस्थपर्वमात्रायतं तु यत् ॥ ११ ॥

कर्तुर्मात्राङ्गुलं प्रोक्त यागादीनां प्रशस्यते ।।
देहलब्धाङ्गुलं यत्तदुपरिष्टाद् विधीयते ॥ १२॥

एवमेवं विदित्वा तु स्थपतिमनेयेद् दृढम् ।।
भवन्ति शिल्पनो लोके चतुर्धा स्वस्वकर्मभिः ॥ १३ ॥

स्थपतिः सूत्रग्राही चे वर्धकिस्तक्षकस्तथा ।
प्रसिद्धदेशसङ्कीर्णजातिजोऽभीष्टलक्षणः ॥ १४ ॥

स्थपतिः स्थापनार्हः स्यात् सर्वशास्त्रविशारदः ।
नहीनाङ्गोऽतिरिक्ताङ्गो धार्मिकस्तु दयापरः ॥ १५ ॥

अमात्सर्योऽनसूयश्चातन्द्रितरत्वभिजातवान् ।
गणितज्ञः पुराणज्ञः सत्यवादी जितेन्द्रियः ॥ १६ ॥


१, २. 'प' क. पाठः 25