पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
पञ्चमोऽध्यायः ।।।

सुरभिप्रतिम भूमिं गृह्णीयात् सर्वसम्पदे ।
एवं यथोक्तविधिना विविधं विदित्वा
ग्रामाग्रहारपुरपत्तनखर्वटानि ।
स्थानीयखेटानिगमानि तथेतरााणि
यः संविविक्षुरवनीग्रहणं विदध्यात् ॥ १९ ॥

इति मगमते वस्तुशास्त्र भूपरिग्रहो नाम

चतुर्थोऽध्यायः ।।

अथ पञ्चमोऽध्यायः ।

सर्वेषामपि वास्तूनां मानेनैव विनिश्चयः ।।
तस्मान्मानोपकरणं वक्ष्ये सङ्क्षेपतः क्रमात् ॥ १ ॥

परमाणुक्रमाद् वृद्धं मानाङ्गलामति स्मृतम् ।।
परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् ।। २ ।।

परमाणुभिरष्टाभी रथरेणुरुदाहृतः।
रथरेणुश्च वालाग्रं लिक्षौयूकायवास्तथा ॥ ३ ॥

क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुर्लम् ।
अङ्गलं तु भवेन्मात्रं वितस्तिदशाङ्गुलम् ॥ ४ ॥

तयं हस्तमुद्दिष्टं तत् किष्क्विति मतं वरैः ।।
पवाविंशतिमात्रं तु प्राजापत्यमिति स्मृतम् ।। '५ ।।

षडूविंशतिर्धनुर्मुष्टिः सप्तविंशडनुग्रहः ।
याने च शयने किष्कुः प्राजापत्यं विमानके ॥ ६ ॥


१. 'भिः', ३. ‘मामन्त्रं गृ’, ३. ‘या’ क. पाठः. ५. 'लि' ख. पाठः. 24