पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मयमते।

ब्राह्मणैश्च यथाशक्त्या वाचयेत् स्वस्तिवाचकम् ।
वस्तुमध्ये ततस्तस्मिन् खानयेद् वसुधातलम् ॥ १० ॥

अरत्निमात्रगम्भीरं चतुरश्रसमन्वितम् ।
दिग्भागस्थैमसम्भ्रान्तमसंक्षिप्तसमुच्छ्रयम् ॥ ११ ॥

अर्चयित्वा यथान्यायं तं कुपमभिवन्द्य च ।
चन्दनाक्षतमिश्रण सर्वरत्नोदेकेन च ॥ १२ ॥

पयसा तु ततः प्राज्ञो निशादौ परिपूरयेत् ।
तस्य कूपस्य चाभ्याशे शुचिर्भूत्वा समाहितः॥ १३ ॥

भूमौ दुर्भावकीर्णयां संविशेत् प्राक्शिरा बुधः ।।
अयं मन्त्रः --
अस्मिन् वस्तुनि वर्धस्व धनधान्येन मेदिनि! ।। १४ ।।

उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ।
उपवासमुपक्रामेदेतं मन्त्र जपंस्ततः ॥ १५ ॥

अह आदौ परीक्षेत ते कुप स्थपातर्बुधः ।
सावशेषं जलं दृष्ट्वा तद् ग्राह्यं सर्वसम्पदे ॥ १६ ॥

क्लिन्ने वस्तुविनाशाय शुष्के धान्यधनक्षयः ।
पूरिते तन्मृदा खाते समता मध्यमा मता ॥ १७ ॥

उत्तम भूर्मदाधिक्यां हीना हीना मृदा मही ।।
तन्मध्यावटसन्दृप्रदक्षिणचरोदकम् ॥ १८ ॥


 ३: ‘स्थि ', १. 'स्तम्भस' के. पाठः, १. ‘षितेन’ ख. पाठः, ४. 'वा', ५. *कम्' के. पाठः, 23