पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ . मयमते द्वितलं क्षद्रमानं च त्रिविधं परिपठ्यते । स्वव्यासद्विगुणोत्सेधं षण्मात्रं वा द्विमात्रकम् ॥७॥ अधिकं शुभदं चारं विप्रादीनां गृहे मतम् । स्तम्भायामाष्टभागे तु षष्ठांशं तु तत+ति ॥८॥ नीचमध्येत्यपि द्वारं भूमौ भूमौ विधीयते । व्यासद्विगुणतुङ्गं तु नेष्टतारं नृणां गृहे ॥ ९॥ स्तम्भायामाष्टभागेन तुङ्गद्वारं सुरालये। नन्दपलथंशहीनं वा विस्तारं स्यात् तदर्धतः ॥ १० ॥ ++++वशाद् भूमौ भूमावत्र विधीयते । विपादपादविस्तारा सावा योगविस्तरा ॥ ११ ॥ स्तम्भव्याससमो वापि तदर्थवलयद्धनम्(?) । त्रिपादं चोत्तराधस्ता+++न्तस्य वाजनम् ॥ १२ ॥ त्रिचतुष्पञ्चषड्भागे भागेन स्तम्भवैपुलम् । कवाटबहलं प्रोक्तं देवद्विजमहीभृताम् ॥१३॥ द्विकवाटविशेषेण एक एव प्रकीर्तितः । सामन्तप्रमुखादीनां द्विकवाट प्रशस्यते ॥ १४॥ सार्धवेदेषुपातालनन्दरुद्रकरान्विता। . उच्चानि तानि तल्पानि वेश्माभ्यन्तरतोलीन्द्रः(?)॥ १५॥ गुल्फार्धविमलार्धे तु किञ्चित्तीनं यथाबलम् । वेश्माभ्यन्तरतल्पोच्चे त्रिचतुष्पञ्चभागिके ॥ १६ ॥ द्वित्रिवेदांशतुङ्गं तत्सरदपंपूर्ववर्तीति(?) । युग्मे महत्तरेऽल्पे च दक्षिणस्थे कवाटके ॥१७॥ 269