पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५३ त्रिंशोऽध्यायः । कुड्यं गजाश्वनिलयं युवतीनवासं कर्तव्यमाद्यनिखिलं नगरं च युक्त्या ॥ २३२।। इति मयमते वस्तुशास्त्रे राजवेश्मविधानो नाम एकोनत्रिंशोऽध्यायः। अथ त्रिंशोऽध्यायः द्विजनृपवणिजां वा सद्मनां शूद्रकाणा- मभिमुखविनिवेशद्वारतारं च तुङ्गम् । पृथगथ निजभेदं मण्डनं चापि नाम्ना सुखमनुगतबुद्धिर्वस्तुवाक्यं मुनीनाम् ॥ १ ॥ त्रिवितस्तिविशालं स्याद् दैर्ध्य सप्तवितस्तिकम् । विस्तारायामतस्तस्मात् षड्द्वादशकराग्रजे ॥ २ ॥ वृद्ध्या त्रिपञ्चसैकेषु षड्वितस्त्यन्तकानिभिः(?)। पञ्चविंशतिमानानि द्वारतारोदयानि हि ॥ ३ ॥ तदाद्यशयनीयस्य गृहस्य द्वादशैव हि । समावृतखलूरीणां तानि चोक्तानि पण्डितैः ॥ ४ ॥ नगरग्रामदुर्गाणां द्वादशोक्तानि वेश्मनाम् । विस्तारद्विगुणोत्सेधं षण्मानं साधिकं भवेत् ॥ ५॥ नवमात्राधिकं वाथ सर्वेषां समुदीरितम् । सषण्मात्रहिभागं च सत्रिमात्रहितालकम् ॥ ६ ॥ 268