पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ मयमते त्रिहस्तावृताभत्तिः स्याद् दण्डोत्सेधं स्ववेदिका । स्तम्भाग्रस्थोऽन्तराविष्टव्यष्टद्वयविभूषिता॥ २२२॥ लुपारूढायविस्तारं समोत्सेधाः प्रशंसिताः । सप्तहस्तद्विहस्तादिव्यासोत्सेधेन वेदिका ॥ २२३ ॥ पञ्चहस्तद्विहस्तेन व्यासोत्सेधेन वा भवेत् । सभामध्ये निधातव्यं तन्मध्ये च वटक्रिया ॥ २२४ ॥ बहिर्जालककुड्यं स्यात् तद्वाह्ये च प्रभा भवेत् । सभा नीवसमुत्सेधो विशाला दण्डमानतः॥२२५॥ . त्रयोविंशतिहस्तेन तद्वहिः परिघा भवेत् ।। चतुर्दिक्षु चतुरिं तोरणं क्षीरपादपैः ॥ २२६ ॥ सोपानं योग्यदेशे तु चतुर्दिशि विधीयते । हारतुल्योन्नतव्यासं निर्गमहारतोरणम् ।। २२७ ।। स्तम्भाग्रस्तोरणाविष्टकंसादिष्वष्टमङ्गलम् । चक्रवर्तिशिखोपेता द्वारे द्वारे प्रयोजयेत् ॥ २२८ ॥ चित्रान्वितपताकाश्च भेरीश्रीकुम्भदीपिकाः। नन्द्यावर्तेन चाष्टौ तु सर्वेषामप्टमङ्गलम् ॥ २२९ ॥ द्वारद्वयोच्छ्रितं शालारक्ष्यवासं यथाबलम् । तहहिर्जेनचारेण बाह्या रक्षा प्रकीर्तिता ॥ २३ ॥ राजेच्छया कुमार्या तद्देव्या कुल्याविमानकम् । मालिकान्ते च भूमा वा योजनीया मनोभवा ॥२३१ ॥ यत्रोचितं नृपतिचित्तवशाद् विमानं सारालिभोगभवनं च निवारणं च । 267