पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । पूर्वापरायतं भर्तृतुलान्तादचलं चरेत् ॥ २१२ ॥ तुलान्तरकराराणां महाराजस्य योग्यताम् ।। कीलितं वितलं मध्ये कुण्डलं सारदारुजम् ॥ २१३ ॥ योजयेद् वक्रतुण्डेन यथाबलसमन्वितम् । त्यक्त्वा तु षण्मुखात् षण्डादेवं तु फलकासनम् ॥२१॥ तत्समाङ्गमितालिम्बी शृङ्खलावलसंयुतम् । वकतुण्डद्वयं द्विहिभूतं यत्नेन योजयेत् ॥ २१५ ॥ वस्तुनश्च चतुर्दिक्षु प्राङ्मुखस्य च तोरणम् । स्तम्भं विष्टं तुलामात्रं कुर्यात् साराङ्घिपैः शुभैः ।। २१६ ॥ वस्तुमध्यगतं बाह्ये परितस्तत्प्रभा भवेत् । तत्समं वरिवश्वापि(?) तहाह्ये योजयेद् बुधः ॥ २१७॥ औदुम्बरवटाश्वत्थन्यग्रोधास्तोरणं भवेत् । पीतं रक्तं तथा श्वेतं नीलं कुर्याद् ध्वजं क्रमात ।। २१८॥ तुलासमं तत् समुपेत्य भूपतेः सुखं समास्ताममरेन्द्रदिङ्मुखम् । समीक्ष्य राशि निजहेमसञ्चयं विराजनावर्धनदो यथा भुवि ।। २१९ ॥ हेमगर्भयुतं सप्तनवरत्नापभित्तिकम्। व्यासेन चतुरश्रा सा व्यासतुल्योच्छ्रिता तलात् ॥२२०॥ दशद्वादशमात्रैर्वा स्तम्भव्यासं प्रकीर्तितम् । वृत्तो वा चतुरश्रो वा चावगाहेद् यथाबलम् ॥ २२१ ॥ 266