पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिंशोऽध्यायः । विपुले चायते तस्मिस्त्र्यंशे पञ्चांशकेतुके । उपरिष्टादधस्तात्तु पाईयोस्त्रयंशमंशकम् ॥ १८ ॥ त्यक्त्वा शेषं प्रवेशेन यदावारं तदुच्यते । यथाबलं यथाशोभमधःपट्टैदृढीकृतम् ॥ १९ ॥ मध्ये महत्तरे हीने योग्यव्यासकलान्वितम् । त्रिचतुःपश्चषण्मात्रं व्यासाधं द्वित्रियंशकम् ।। २० ॥ सत्रिपादत्रिभागैकनभाजनविकासमम्(?) । बाहुली दशमात्रा स्याद्धस्तिहरताद्विशालि वा ॥ २१ ॥ वितस्तीनां विधातव्यं नेत्रं यामुद्गपाणिवत्(?)। अयुग्मफलकं ग्राह्य मध्यसन्धिविवर्जितम् ॥ २२ ॥ तल्पस्य भेषणी चैते मध्यं त्यक्त्वा समाहिते । कवाटयुगलोपेते यथाबलमभेषणी ॥ २३ ॥ अथ तल्पघनस्यान्यधनाद् द्विगुणविस्तृता । दण्डत्रिपश्चसप्तैव नवैकादशसंख्यया ॥ २४ ॥ अश्वस्कन्धनखा हस्तेऽश्वत्थपत्राग्रसन्निभा । स्वस्तिकाभास्तु घटिका मिर्णका वाथवा मता ॥ २५ ॥ श्रीमुखैर्वामदण्डैश्च पिञ्जरीगलकार्गलैः । क्षेपणैः सर्घपत्रैश्च गुच्छगैर्वनकैस्तथा ॥ २६ ॥ गुल्फैरन्तर्गतैाम्यैर्वालाभैर्मध्यकुण्डलैः । विषाणपरिधाक्षुद्रदण्डैर्युक्तं कवाटकम् ॥ २७ ॥ इन्द्रनीलसमोपेतं सर्वचित्रमनोहरम् । अधवासान्यलोहैश्व युक्त्या तत्र दृढीकृतम् ॥ २८ ॥ 270