पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ , मयमते दित्यंशे हेमरत्नानि गन्धागारमिहोच्यते ॥११॥ तत्रैव हस्तिशाला स्यादीशे वापी च कूपकम् । वचोगेहं(?) तु तत्रैव जलयन्त्रं विधीयते ॥ ११९ ।। तत्र तालं च मार्ग च पूर्ववत् परिकल्पयेत् । स्थण्डिलं तद्वहिर्भागे पर्जन्यांशे महेन्द्रके ॥ १२० ॥ भानुसत्यान्तरिक्षा वै वाङ्गणं कारयेत् सुधीः। महेन्द्रांशे भवेद् द्वारं चतुष्पञ्चतलान्वितम् ॥ १२१ ॥ तत्रैव शङ्कभेर्यादितौर्यशब्दादिचित्रकम् । अनुक्तं पूर्ववत् सर्व परितः प्रविधीयते ॥ १२२ ॥ परमशायिबाह्ये तत् तत्प्राच्यामङ्गणं भवेत् । जयन्ताद्यन्तरिक्षान्तमङ्गणं कारयेद् भृशम् ॥ १२३ ॥ अनुक्तं पूर्ववत् सर्व श्यानांशादिक्रमेण च । स्थानीय तहहिर्भागे प्राच्यां दिश्यङ्गणं भवेत् ॥ १२४।। अङ्गणस्य तु विस्तारं दैयद्विरसप्तभागिकम् । द्वारगोपुरसंयुक्तं दुर्गाधामसमन्वितम् ॥ १२५॥ महामहानसं तस्य प्राग्दक्षिणगतं भवेत् । तत्र कर्मान्तवत्सानां लेखनानां तु कर्मिणाम् ।। दक्षिणे चाष्टभागे तु नैवाङ्गणमहान्तरम्। अश्वलीलार्थकं वाथ गजलीलार्थकं तु तत् ॥१२७ ॥ तत्रैव तुङ्गकूटं स्यान्निर्ऋतौ नृपमन्दिरम् । खंलरिं तहहिर्भागे तहहियोषितां गृहम् ॥ १२८ ॥ वरुणे नृपवा(मं ? सं)स्याद् योषितां सङ्करालयम् । 257