पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ मयमते नन्दरुद्रतले मूले सप्तभूद्वारगोपुरम् । एकैकतलसंख्याभिहीनमभ्यन्तरे क्रमात् ॥ ७५॥ विशेषेण नरेन्द्रेण नरेन्द्रद्वारमुत्तमम् । राक्षसांशेऽथवा मुख्या द्वारपञ्चत्रिभूमिकम् ॥ ७६ ॥ पुष्पदन्ते च भल्लाटे द्वारं नीचतलान्वितम् । सुग्रीवांशेऽथवा मुख्ये जयन्ते वितथेऽपिच ॥ ७७ ॥ . पक्षद्वारं प्रकर्तव्यमेकद्वितलसंयुतम् । अष्टसालं बहिःसालं सच्छिद्रं च सचक्रकम् ॥ ७८ ॥ विशेषेण नरेन्द्राणामिन्द्रभागे तु मन्दिरम् । ब्रह्मांशमाश्रितं वेश्म सर्वसम्पत्सुखावहम् ॥ ७९ ॥ सकलक्षितिपेन्द्राणामेकादशतलं भवेत् । नवभूमिर्हिजा(राज्ञा?तीनां) नृपाणां सप्तभूमकम् ॥ ८ ॥ षटतलं मण्डलीकुड्य पञ्चभूमावराजते । वैश्यानां तु चतुभौमं योधसेनेशयोरपि ॥ ८१ ।। एकादित्रितलान्तं च शूद्राणां प्रविधीयते । सामन्तप्रमुखादीनां कारयेत् पञ्चभूमकम् ॥ ८२ ॥ युग्मं वायुग्मभूमं वा सर्वभूपेन्द्रमन्दिरम् । राज्ञा स्त्रीणां च देवीनां युग्मं वायुग्ममेव वा ॥ ८३ ॥ सदण्डिकं लुपारोहि द्विनेत्रं प्रस्तरान्वितम् । मृण्मयं तु तृणाच्छाद्यमेकद्वितलसंयुतम् ॥ ८४ ॥ स्तूपिवर्णलुपाहीनं प्रशस्तं सर्वजातिषु । 253