पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । २३१ ग्रामाग्रहारपुरपत्तनकादिकानां देयो बलिङ्गपटके(?) च विदिक्षु दिक्षु । सब्दौ चतुष्कसहिते सुरमन्दिरे च श्रेष्ठेकजायनिलयेऽखिलदेवताभ्यः(?) ॥३६॥ ___ इति मयमते वस्तुशास्त्रे गृह प्रवेशो नाम अष्टाविंशोऽध्यायः। अथैकोनत्रिंशोऽध्यायः । अथ वक्ष्ये राजगृहं संक्षेपाद् बाह्यनगरशिबिरयुतम् । त्रिचतुर्भागे नगरे प्राच्यां वाप्युक्तशालायाम् ॥ १॥ नरपतिगृहमथ राज्ञा दक्षिणतः पश्चिमांशे तु । पूष्णे योधकभवनं स्यात् सप्तनवांशे प्रतीच्यां तु ॥ २ ॥ अङ्करादीनां भवन(शेनासा?सेनेशा)नां हि तत्रैव । विश्वनपैश्वरभवनं मध्येवासं त्रिभागभागेषु ॥ ३ ॥ नगरांशवशान्मानं ह्येतदण्डेन (सो? सं)वक्ष्ये । सचतुश्चत्वारिंशच्छतदण्डे वेश्मविस्तारम् ॥ ४ ॥ युगवसुभानुविकारैर्दण्डैः क्षपयेत् ततः क्रमशः । द्वात्रिंशद्दण्डान्तं वेश्मव्यासं(तो : तथोक्तानाम् ॥ ५ ॥ तत्तहेश्मविशालामूर्ध्वं संवर्धयेत्तु तथा । सप्तचतुर्दण्डयुतपश्चशतज्येष्ठविस्तारम् ॥ ६ ॥ द्वात्रिंशद्दण्डादाद्वात्रिंशन्मानमेवमुद्दिष्टम् । ज्येष्ठाज्येष्ठविशालमन्येषामन्यदिष्टं स्यात् ॥७॥ दैर्घ्य व्यासद्विगुणं द्विगुणं पादोन(वा ? म)र्धकं पादम् । द्वादशशालाकारं चतुरं वृत्तं तदायतं शकटम् ।। ८॥ 246