पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० मयमते प्रीत्या प्रविश्य गृहवस्तु निरीक्ष्य सर्व तो दंपती च शयनेऽप्युपविश्य पश्चात् । सव्यञ्जनोदनमथो गृहिणी गृहीत्वा । निर्वर्तयेद् गृहबलिं बलिशेषमन्नम् ॥ २९ ॥ स्वमूलादास्यै स्वकुलानुगां वै(?) गत्वाथ देवद्विजतक्षकादीन् । धनैश्च रलैः पशुभिश्च धान्यैः सन्तर्प्य वस्त्रादिभिरत्र नित्यम् ॥ स्वजनगुरुजनाचैमित्रभृत्यादिवर्ग- रनुगतजनवृन्दैरत्र भोक्तव्यमादौ । गृहपतिरपि पत्नी तत्र नत्वा गुरूंस्त. त्सुतजनमपि पौत्रै जनीयान् क्रमेण ॥ ३१ ॥ अम्भोभिः पूर्णकुम्भैः सफलकदलिकामञ्जुलैः पूगवृक्ष- दीपरश्वत्थपत्रैः सिततरकुसुमैः साङ्करैः पालिकाभिः । कन्याभिर्मङ्गलाभिर्युवतिभिरमलैविप्रमुख्यरुपेतं हारं तत्तोरणाढ्यं गृहमनघतरं वेशयेद् वेश्मनाथम् ।।३२॥ सितवस्त्रजलप्रदीपपूर्ण सितकुममाम्बरधारणं सुहृष्टम् । गृहपतिपुरतो यथा विवाहे गृहिणिकरग्रहणं गृहप्रवेशे ॥३३॥ अदत्तबलिभोजनमदच्छदमगर्भ हिजस्थपतिकादिभिरपितमतल्पम् । विशल्यपि गृहं चदालमेव हि विशत्यौ (?) विपत्पदविमेयमतितुष्टहृदयः सः ॥ ३४ ।। अतिसन्तुष्टमना गृहेश्वरी युतयोषित्स्वजनप्रियानुगः । स्वगृहं प्रविशेत् प्रविश्य( विचे)वं शुभवाग्भिः परिपूर्णतर्णकः॥ 245