पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ अष्टाविंशोऽध्यायः । दहति कूटभुजङ्गममक्षिकान् मशकमूषिकलूतिकलूतकान् ।। पश्चाच्च पात्रान्तिकपश्चिमांशे धान्यास्तरे तक्षकसाधनानि । सर्वाणि विन्यस्य बलिं च दत्त्वा तेभ्यो वदेत् संग्रहमध्यमस्थः॥ निरुजा मुदिता सधना प्रतिका यशसा महतामृतवार्ययुता। सततं निरुपद्रवकर्मयुता पृथिवी पति जीवतु कर्मविधे(?)॥ धारानिपातात् सलिलप्रकोपाद् दंष्ट्रानिपातात् पवनप्रकोपात् । अग्नेश्च दाहान्मुषिताच चोराद् रक्षन्त्विदं सद्म शिवं च मेऽस्तु ॥ उक्त्वैवमेवमाखलान्यपि साधनानि स्थित्वा प्रणम्य शिरसा स्थपतिः कराभ्याम् । आदाय तानि सकलानि तदीयबाही सम्यङ् निधाय विधिना स्वजनैः सभृत्यैः॥ २४ ॥ संग्राह्य बन्धुजनपुत्रसहायकाद्यै गच्छेत्स्वकीयभवनं प्रति तुष्टचेताः । संन्यस्य सर्वमततहालिशेषमन्नं सम्यक्क्षिपेत्सलिलके गृहदेवताभ्यः ॥२५॥ अथ सम्यग् गृहमार्जने कृते सितकुष्ठागरुचन्दनाम्बुभिः । कलशोदैरपि गन्धसंयुतैर्मणिहेमाम्बुभिरत्र सेचयेत् ॥ २६ ॥ अथ सिद्धार्थकलाजशालिकान् भवनाभ्यन्तरतो विकीर्य++। उपदंशैर्युतमष्टधान्य++धनरत्नं गृहवस्तुवेश्य सर्वम् ॥ २७ ॥ गृहपति(ग?गृहिणी समङ्गलौ च सुजनसुभृत्यसुतानुजाभिधौ(?) । स्वभवनं गृहिवस्तुसमग्रकं प्रविशताम(वि?नु)चिन्त्य जगत्पतिम् ॥ २८ ॥ 244