पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ मयमते पित्रे प्रतीच्यपि बालं वरुणाय दद्याद् वायौ सबन्धुरानिलाय बलिं नयेद्धि ॥ १३ ॥ सोमाय सोमपदके दिशि चोत्तरस्यां मित्रैः सह स्वबलिमत्र निवेदयेत् तत् । पूर्वोत्तरे दिशि शिवाय सबन्धुवगै- रेवं हि दिक्षु च विदिक्षु बलिं विदध्यात् ॥१४॥ ईशे चर(न्त्यै?क्यै)ज्वलने विदार्य व्यपूर्यतानां पितबाह्यभागे(?) एवं पुनर्मारुतबाह्यभागे स्यात् पापराक्षस्यपि भोजनीयाः ॥ स्तम्भे वनाय च दिनाय दिवाचरेभ्यो । दिक्षे(?) च तत्र च विदिक्षु निशाचरेभ्यः । उर्वी ? -) क्षिपेद् बलिमधोरगदेवताभ्यो धर्माय वीर्यविदिवेऽखिलदेवताभ्यः ॥१६॥ द्वारस्य वामपदके मनवे परेभ्यो __दद्युच्छ्रयैः(?) +शयने विधिना बलिं तत् । शालासु मण्डपसभास्वथ मालिकायां मध्येङ्गणं तु मुखमण्डपके विमाने ॥१७॥ धान्येष्टकेष्टपदकेऽभ्यमरान्त्य(म?मां)रता- नाहूय गन्धकुसुमादिभिरर्चयित्वा। दत्त्वोदकं सुबलिमत्र निधाय पश्चाद् देयं जलं स्थपतिना विहितं च धूपम् ।। १८ ॥ तुलसिसर्जरसार्जुनमञ्जरीघनवचाकपटोलसगुग्गुलुः । त्रपुषहिङ्गुमहौषधिसर्षपाः कुरवकोऽत्र सदैव सधूपराट् ॥ १९॥ ददति धान्यधनानि बहून्यहो हरति भूतपिशाचसराक्षसान् । 243