पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ मयमते नन्द्यावर्त कौकुटमिभकुम्भं स्वस्तिकं चैव । गोलापश्चमृदङ्गमग्निमिति ह्येकमानयुतम् ॥ ९॥ इष्टव्यासायामं प्रागेवालं विचिन्त्य कर्तव्यम् । तस्माद्धीनं यत्तन्निष्पन्नं वास्तु येन केनापि ॥ १० ॥ अशुभमवनीपतेस्तत् सततं विपदां पदं भवति । पौराणां यद्वस्तु वर्धितुमिच्छेहहिस्ततस्तस्मात् ॥११॥ प्रागुत्तरदिशि वृद्धिः शस्ता परितस्तु वा न्याय्या ।। प्रागङ्गणमथ मुख्यं दक्षिणतो वाप्यथाङ्गणं श्रेयम् ॥१२॥ वेश्माभ्यन्तरमध्ये दण्डार्धव्यासतुङ्गपीठं (स्यात)। दण्डेन बहिस्तस्मात् पीठेनैवात्र एवं सहवेदी ॥ १३ ॥ तवेद्या दक्षिणतः पञ्चकषवस्तदण्डक नीत्वा । क्षोणीभृतां प्रतिभवनं वेद्यादपरे तु सूत्रमध्यगतम् ।। तवेद्या उत्तरतस्तावन्मानं विहाय तद्वेद्या । प्राक्सूत्रमध्यगतं देव्या धाम्नस्तु तत्र तत्रैव ॥ १५ ॥ त्रिष्षोडशदण्डा वा हात्रिंशदण्डमानका वापि । सचतुर्विशतिदण्डाः षोडशदण्डं तु वाथवा नीत्वा ॥ नपतिर्देयायामं बहिः प्राकारत्रिहस्तविस्तारम् । एकादशकरतुङ्गं तबाह्ये सप्तहस्तमानेन ॥ १७ ॥ परितः पन्थास्तिस्रस्तस्मान्नवदण्डमाया(वल्य?म)म् । वेश्मावल्या वृत्तं कूटतति(सेत्व?स्त्व)र्कदण्डमानेन । सार्धदशा(व?द)त्युच्चं तस्मात् पन्था बहिस्तु नवहस्तैः । तस्माद् द्विषोडशभिर्दण्डैर्मर्यादिरेव भित्तिः स्यात् ॥१९॥ 247