पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
मयमते।।।

 धनकुलपशुवृहि शंसते तस्य भर्तु-
  गुहगतशुभमानं पादमध्यं च भित्तेः ॥ १२६ ॥
दक्षिणापवरकं गृहेशितुर्वामरङ्गमुदितं तु योषितः ।
तद्विपर्ययमशोभनं तयोश्चित्तदुःखमनिशं ददाति हि ॥१२७॥
मध्यं प्रोक्तं वस्तुगेहाधिकानां भित्तेर्युक्त्या तत्क्रम सम्पन्छ ।
तत्तन्मिश्रं सर्वसम्पत्क्षयं स्यात्तस्मात्सम्यक् सम्परीक्ष्यैव कुर्यात्॥
मेष वृषे चान्नगृहं प्रकुर्यान्मृगेन्द्र के कर्कटके च धान्यम् ।
धनं तुलायामथ वृश्चिके वा सुखालयं वै मकरे च कुम्भे ॥

इति मयमते वस्तुशास्त्रे चतुर्गृहविधानो नाम

सप्तविंशोऽध्यायः।


अथ अष्टाविंशोऽध्यायः।

अश्र निष्पन्नगृहं प्रविश्य तं त्वरितं न प्रविशेदनिष्ठितम् ।
यदि निष्पन्नमवेशितं चिरं सुरभूतादिगणाश्चरन्त्यलम् ॥ १॥
अथ कर्मान्तमुपेत्य तद्गृहं शुभनक्षत्रतिथौ च वारके ।
शुभहोरासुमुहूर्तकोशके करणे लग्नयुते विशेच्छुभम् ॥ २॥
पूर्वेधुर्वासयित्वा हिजपशुवृषभांस्तर्पयित्वा जलायैः
 स्वाध्यायोमशान्तिद्विजवरमुदितैस्तद्गृहं स्वस्तिवाच्यैः।।
पूतं कल्कैर्हरिद्रागरुसरुषपकुष्ठादिकानां वचानां
 कुड्ये संलेपितं तैः सह भुवि सलिलैश्चन्दनस्थानुसिक्तम् ॥
पवनस्योत्तरपूर्वभागे त्वधिवासं निशि(मा?चा)रभेत् सुधीः ।
सवितानादि पताकलङ्कनैबहुवर्णाम्बरचित्रमण्डपैः ॥ ५ ॥