विषं च विषसातं च कूपं देवगृहं भवेत् ।
सवित्राद्यन्तरिक्षान्तं सव्यञ्जनमहानसम् ॥११८ ॥
वितथे पूष्णि साविन्द्रे भक्तगेहं मनोहरम् ।
एवमैश्वर्ययुक्तानां वैश्यानां प्रविधीयते ॥ ११९ ।।
विशां यथार्हकं सर्व त्यक्तपश्चिमभागकम् ।
कायभारामिति प्रोक्तं तुलानीयं प्रवक्ष्यते ॥१२० ॥
विस्तारद्विगुणायाममायाम सप्तभागकम् ।
त्रिभागं वस्तुमध्ये तु चतुष्पष्टिविभाजिते ॥ १२१ ॥
मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ।।
तत्पूर्वापरयोईिद्विभागं त्यक्त्वा प्रयत्नतः ॥ १२२ ॥
पादायामे पञ्चभागे युगांशं द्वारायामं शेषभागं षडंशम् ।
ज्य व्यर्ध चोत्तराधः प्रतिः स्याद् द्वारे बद्धं पूर्ववत् तस्य तारम्॥
तरुणरविमयूखप्रेक्षणादन्नशालं
व्यतिनतमपराहे वारुणादृश्यजालम् ।
धनगृहमतितुङ्गं दुनिरीक्षं विशङ्को-
रतितरमुरुतुङ्गं दक्षिणागारमिष्टम् ॥ १२४ ॥
मुनिशुभकररश्मिप्रेक्षणादत्र हेतोः
सुरगृहमतिनीचं चाथ कर्तव्यमेव ।
हिजनपवणिज वा शूद्रकाणां गृहाणा-
मुदयनतविभागप्रोक्तमायामनैच्ये ॥ १२५ ॥
गृहगतपरमेशं राक्षसे पुष्पदन्ते
शुभकरमथ भल्लाटांशकेंऽशे महेन्द्रे ।