पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
मयमते।।।

स्तम्भमूले विधातव्यं गर्भ गुह्यतरं वरम् ।
द्वारस्य दक्षिणस्तम्भे तद्भित्तौ गूढपादके ॥ ६४ ॥
वस्तुमण्डपमध्यस्य दक्षिणे वाङ्घिमूलके।
पिण्डभिन्नगृहे गर्भस्थानं पञ्चविधं भवेत् ॥ ६५ ॥
तस्योपरि निधातव्यं मुहूर्तस्तम्भमुत्तमम् ।
विधिज्ञैस्तत्र खदिरं खादिरं च मधूककम् ॥ ६६ ॥
राजादनं यथासंख्यं विस्तारायांममुच्यते।
भानुरुद्रदशद्वारवितरल्यायामसंयुताः ॥ ६७ ॥
तत्सङ्ख्याङ्गलविस्तीर्णाः स्वाग्रेऽष्टांशविवर्जिताः।
भूतसार्धचतुर्वेदगुणतालनिखातकाः ॥ ६८ ॥
वृत्तकुड्मलखण्डाग्रबुदबुदाकृतिशीर्षकाः।
द्विजादीनां चतुर्णा हि स्तम्भाः सम्यक् प्रपूजिताः ॥ ६९॥
पिण्डशाला च कर्तव्या त्यक्तमध्यस्थपादका।
गृहमध्यमभित्तिश्च पादमध्यमवर्जिता ॥ ७० ॥
तामाश्रित्य तु कुल्याभद्वारद्वयमिहेष्यते ।
यत्र चाभ्यन्तरद्वारं पूर्वदक्षिणतो दिशि ॥ ७१॥
दक्षिणे गृहपार्श्वे तु गृहपार्श्वे महानसे ।
अभ्यन्तरे तु यद् द्वारं पश्चिमोत्तरतो दिशि ॥ ७२ ॥
उत्तरे गृहपार्थे तु पार्श्वे पश्चिमतो गृहे ।
शालासु भिन्नशालासु सन्धिकर्म न कारयेत् ॥ ७३ ॥
देवतास्थापनं पिण्डशालासु तु विधीयते ।
नेष्यते बाह्यदेवानां पद्मजस्य निवेशनम् ॥ ७४ ॥