पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२१
सप्तविंशोऽध्यायः ।।।।।

शेषाश्च निष्पदाः सर्वे रक्षणार्थ निवेशिताः ।
कदाचित् पिण्डशालाभ्यो मध्यं न प्रविधीयते ॥ ७५ ॥
पार्श्वयोः पृष्ठतः पूर्वे पादानां च समुच्चयम् ।
प्रवक्ष्याम्यनुपूर्वेण हस्तसङ्ख्यावशात् पुनः ॥ ७६ ॥
त्रिहस्ते वा त्रिहस्तार्धे स्तम्भा अष्टौ समाहिताः ।
चतुर्हस्ते च साधं च पञ्चहस्ते च सद्मनि ॥ ७७ ॥
द्विरष्टस्तम्भमुद्दिष्टं षट्पडर्धे च सप्तके ।
त्रिरष्टाङ्घय उद्दिष्टाः सार्धाष्टनवहस्तके ॥ ७८ ॥
चतुरष्टाचयः प्रोक्ता दशा(कादशेऽपि च ।
पश्चाष्टस्तम्भसङ्ख्याः स्युः सार्धे द्वादशहस्तके ॥ ७९ ॥
त्रयोदशविशाले तु षडष्टैवावयः स्मृताः।
विस्तारे च तथायामे समाः पादास्तु सङ्ख्यया ॥ ८ ॥
सप्तहस्तं तु विस्तीर्ण षड्भागेन विभाजयेत् ।
द्विभागेन मुखेऽलिन्द्रं नवहस्तेऽष्टभागके ॥८१॥
त्रिभागं पुरतोऽलिन्द्रमेकादशविशालके ।
दशभागे चतुर्भागमार्यभागे त्रयोदशे ॥ ८२ ॥
षडंशं पुरतोऽलिन्द्रमेवं भागक्रमं विदुः।
खामिस्थानस्य विस्तारं चतुष्पञ्चाशदगुलम् ॥ ८३॥
अष्टसप्तत्रिमानं हि महत्त्वे तु विधीयते ।
षट्पडङ्गुलवृद्ध्या तु पश्चमानं विधीयते ॥ ८॥
षष्टिभागे कृते स्तम्भे षोडशांशेन वेदिका ।
वेदिकाद्विगुणं पादं शेषं प्रस्तरमानकंम् ॥ ५॥