पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
मयमते।।।

चूल्युच्चं सर्वगेहानां गृहान्तं विपुलं भवेत् ।
पादोदयसमा भित्तिः स्वपादत्रिगुणा ततिः ॥ ४२ ॥
गेहतारचतुर्भागपञ्चभागान्तरं क्रमात् ।
पादव्यास इति प्रोक्तं गेहव्यासान्तरात्तु वा ॥४३॥
यावन्तो विपुले हस्तास्ताव दङ्गुलसङ्ख्यया ।
सर्वेषामपि गहानां स्तम्भविष्कम्भमिष्यते ॥ ४४ ॥
महेन्द्रांशे भवेद् द्वारं मुख्यांशे वारिनिःस्रवम् ।
ब्राह्मणानामिदं सर्व सम्पदा स्यात् सदास्पदम् ॥ ४५ ॥
महेन्द्रार्कार्य(क: के) सम्यग भृशभागे महानसम् ।
त्रिहस्तं पञ्चहस्तं च व्यर्धहस्तं घडधकम् ॥ ४६ ॥
चतुर्हस्तं सप्तहस्तं चतुरष्टाहस्तकम ।
पञ्चहस्तं नवहस्तं पञ्चमानं महानसे ॥ ४७ ॥
गृहक्षतांशके हारं जयन्ते वाशिनिःस्रवम् ।
प्राच्यावामं नृपस्योक्तं कोशवाहनवर्धनम् ॥ ४८ ॥
गृहक्षतार्किगन्धर्वभृङ्गराजे विवस्वति ।
धान्यालयं प्रकर्तव्यं तत्तारायाममुच्यते ॥ १९ ॥
पञ्चहस्तं नवहस्तं षडधं च दशार्धकम् ।
सप्तकादशहस्तं स्यान्नवत्रयोदशहस्तकम् ॥ ५० ॥
एकादशपञ्चदशहस्तं पचप्रमाणकम् ।
पुष्पदन्तपदे हारं वितधे बारिनिःस्रवम् ॥ ५१ ॥
विशां दक्षिणवासं स्याद् धनधान्यसुखावहम् ।
पुष्पदन्ते सुरे शोपे वारुणे मित्रके पदे ॥ ५२ ॥