पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१७
सप्तविंशोऽध्यायः ।।।।।

शमीखादिरखदिरस्तम्भाश्च द्विजराजयोः।
सिलीन्धं पिशितं मधूकं वैश्यस्तम्भाः प्रकीर्तिताः॥ ३१ ॥
राजादनं च निम्बं च सिलीन्ध्रः पिशितिन्दुका ।
शूद्राणां स्तम्भवृक्षाश्च त्वक्साराः सर्वयोग्यकाः॥ ३२॥
पक्केष्टकाभिः सुधया मण्डपं द्विजभूपयोः ।
वैश्यादीनामपक्काभिर्नानालङ्कारशोभितम् ॥ ३३ ॥
प्रपा वा तत्र कर्तव्या नालिकेरदलच्छदा।
गृहमण्डपयोर्मध्ये त्रिचतुष्पञ्चषट्कराः॥ ३४ ॥
एकहस्तं द्विहस्तं वा क्षुद्रे मार्गविशालता ।
सर्वतः समविस्तारं प्रकुर्यादावृतं पथम् ॥ ३५ ॥
अन्नागारादिमध्यं तु वास्तुमध्यात् प्रदक्षिणम् ।
आदित्यनन्दपाताल भूताङ्गुलमिति क्रमात् ॥ ३६ ॥
धर्मनन्दाष्टधात्वंशा अन्नाङ्गानादिपातका ॥ ३७॥
एकैकाङ्गगतं तत्तत्स्तम्भस्थापनकमणि ।
वास्तुमध्यादुदक्पूर्व दक्षिणापरतः क्रमात् ॥ ३८ ॥
गृहाविमध्ययोर्मध्यभित्तिमध्यमिति स्मृतम् ।
अन्तर्मुखानि गेहानि वास्तुनश्च बहिर्मुखम् ॥ ३९ ॥
महीधरेन्दुभल्लाटमृगादितिपदाश्रितम् ।
सौख्यं महीसुरावासं तत्तारायाममुच्यते ॥ ४० ॥
पञ्चादिनवहस्तान्तं मध्याधं च दशार्धकम्।
सप्तकादशहस्तं स्यादिति मानत्रयं विदुः ॥ ११ ॥