पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
मयमते।।।

कर्तव्यं वास्तुमध्ये तु मण्डपं प्रथमं बुधैः ।
वास्तुव्यासचतुर्भागं मण्डपस्य तु विस्तृतम् ॥ २०॥
पञ्चषट्सप्तभागाप्टनवभागैकमेव वा ।
सप्तहस्तादि षण्मानं द्विद्विहस्तविबंधनात् ॥ २१॥
आसप्तदशहस्तान्तं श्रेष्ठमध्यकनिष्ठकम् ।
एकभक्त्या द्विभक्त्या वा चतुष्पादाष्टपादकम् । २२॥
हिजभूपतिवैश्यानां युग्मपादं प्रकीर्तितम् ।
शूद्राणामन्यजातीनामयुग्मस्तम्भामिष्यते ॥ २३ ॥
द्विजवन्नृपवैश्यानां वैशिष्टयं मध्यवेदिका ।
त्रिकालबलिलब्धा च पुष्पगन्धादिपूजिता ॥ २४ ॥
सा त्रितालसमुत्सेधा चोत्सेधसमविस्तृता।
तन्मध्ये ब्रह्मपीठं स्थाद् वेदिकाप्रमाणतः ॥ २५ ॥
षट्क्षडङ्गुलहीनं स्यात् तन्मानं नृपवैश्ययोः ।
शूद्राद्यन्तरजातीनां न कुर्याद् ब्रह्मवेदिकाम् ।। २६ ।।
सायते चतुरश्रे च तत्तदाकृति मण्डपम् ।
पञ्चतालं समारभ्य त्रिज्यङ्गुलविवर्धनात् ॥ २७॥
नवधा तलिपायामाः सप्तकायान्तमानकाः।
पञ्चाङ्गुलं समारभ्य त्रयोदशाङ्गुलान्तकाः ॥ २८ ॥
नवधा पादविष्कम्भास्त्वग्रेऽष्टांशविवर्जिताः।
पादोच्चार्धमधिष्ठानं षडष्टांशोनमेव वा ॥ २९ ॥
पादोच्चे त्रिचतुर्भागं चतुरश्रं च वृत्तकम्। ..
वस्वकं चित्रखण्डं च स्तम्भानामाकृतिः स्मृता ॥ ३०॥